________________
सप्तममौरभ्रीयमध्ययनम्
व्यवहारदृष्टान्तमाह
जाय तिन्नि वणिया, मूलं घेत्तूण निग्गया ।
एगो त्थ लब्भइ लाभ, एगो मूलेण आगओ ॥ १४ ॥
व्याख्या- यथा त्रयो वणिजो मूलं मूलराशिं गृहीत्वा स्वस्थानात् स्थानान्तरं निर्गताः, तत्र गतानामेको वणिक् कलाज्ञोऽत्रैतेषु मध्ये लभते लाभं विशिष्टद्रव्योपार्जनं, एको द्वितीयो न दक्षो नाऽदक्षो मूलधनेनैवागतः स्वस्थानम् ॥१४॥
एगो मूलं पि हारिता, आगओ तत्थ वाणिओ । ववहारे उवमा एसा, एवं धम्मे विजाणह ॥१५॥
व्याख्या-एकस्तृतीयो द्यूतमद्याद्यासक्तो व्यवसायमकुर्वन् मूलं नीवीमपि हारयित्वाऽागतः स्वस्थानम् ।
I
कथेयं-एकस्य वणिजस्त्रयः पुत्रास्तेन तेषां सहस्रं सहस्रं कार्षापणानां दत्तं, उक्ताश्चैतावता द्रव्येण व्यवहृत्येयता कालेनैतव्यं । तेऽपि तन्मूलं लात्वा स्वपुरान्निर्गताः, पृथक् पृथक् पत्तनेषु स्थिताः, तत्रैको भोजनाच्छादनस्तोकव्ययो निर्धूतमद्यमांसवेश्यादिव्यसनो युक्त्या व्यवहरन् धनं लाभं लेभे । द्वितीयस्तु मूलमक्षिपन् लाभं भोजनाच्छादनमाल्यभूषादिषु भुङ्क्ते, न चाऽत्यादरेण व्यवहरते । तृतीयस्तु न किञ्चिद् व्यवहरन् द्यूतमांसवेश्यागन्धमाल्यताम्बूलशरीरसत्क्रियाभिरल्पेनापि कालेन द्रव्यं क्षपितवान् । त्रयोऽपि यथावधिकाले स्वपुरमेताः, तत्र यश्छिन्नमूलः स पितृभ्यां गृहान्निष्कासितो जननिन्द्यः प्रेष्य एव जातः, द्वितीयो गृहव्यापारे नियुक्तो भक्तमात्रसन्तुष्टोऽभूत् न प्रतिष्ठार्हपुण्यकृत्यमुख्याधिकारी । इतरस्तु गृहसर्वेशो जातो राजमान्यश्च बन्धुयुग् मोदते । केऽप्याहु वणिजः प्रत्येकं प्रत्येकं व्यवहरन्ते तत्रैकश्छिन्नमूलः प्रेष्यत्वं गतः केन वा व्यवहरते ? अच्छिन्नमूलः पुनरपि वाणिज्ये याति, इतरो बन्धुयुग् मोदते ।
2
एष व्यवहारविषयोपमादृष्टान्तः, एषां एवं वक्ष्यमाणन्यायेन धर्माधर्मविषयामेनामुपमां विजानीत ! ||१५||
यथा
११३
माणुसत्तं भवे मूलं, लाभो देवगईभवे ।
मूलच्छेएण जीवाणं, नरग - तिरिक्खत्तणं धुवं ॥१६॥
व्याख्या - मानुषत्वं भवेन्मूलं स्वर्गापवर्गात्मकोत्तरोतत्ततरफलहेतुतया, तथा लाभो
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org