________________
श्रीउत्तराध्ययनदीपिकाटीका - १
राजाऽश्वहृतोऽटव्यां गतः, आम्रच्छायायां च विश्रान्तः, अध आम्राणि पतितानि दृष्ट्वा - ऽमात्येन वार्यमाणोऽपि ततफलं करे धृत्वा परामृशन् जिघ्रन्नास्ये क्षिप्त्वाऽगिलत्, मृतश्चे
त्याम्रदृष्टान्तः ।
११२
अथ दृष्टान्ते दान्तिकं योजयति
एवं माणुस्सगा कामा, देवकामाण अंतिए । सहस्सगुणिया भुज्जो, आउं कामा य दिव्विया ॥१२॥
व्याख्या - एवं काकिण्यम्रकसदृशा मानुष्यकाः कामा विषयाः, देवकामानां अन्तिके सहस्रगुणकारगुणिताः सहस्त्रगुणिता भूयो बहून् वारान् मनुष्यायुः कामापेक्षया, आयुर्देवभवस्थितिः, कामाश्चशब्दाद्याः, दिव्यका देवभवभवाः, देवभोगानां भूयस्त्वं सूचयता कार्षपणसहस्रराज्यतुल्यतोक्ता ॥१२॥
नृकामानामेव काकिण्याम्रफलोपमां भावयति
अणेगवासाणिजुया ( नया ), जा सा पन्नवओ ट्ठई । जाई जीयंति दुम्मेहा, ऊणे वाससयाउए ॥१३॥
व्याख्या - अनेकानि बहूनि तानि चेहाऽसङ्ख्येयानि वर्षाणां नयुतानि सङ्ख्याविशेषा वर्षनयुतान्यनेकानि च तानि वर्षनयुतानि । 'स्वरोऽन्योऽन्यस्य' इति प्राकृतलक्षणात् सकाराकारदीर्घत्वं, एवमन्यत्रापि स्वरान्यत्वं ज्ञेयं, पुंस्त्वमपि । पल्याः सागराः, तत्र चतुरशीतिवर्षलक्षाः पूर्वाङ्गं तच्च पूर्वाङ्गेन गुणितं पूर्वपूर्वम्, चतुरशीतिलक्षाहत नयुताङ्ग, चतुरशीतिलक्षाहतं च नयुतं ज्ञेयं । या सेति प्रज्ञापकः, शिष्यान् प्रत्येवमाह - प्रकृष्टं क्रियायुक्तत्वाद् ज्ञानं प्रज्ञा, तद्वत: प्रज्ञावतः स्थितिर्युक्तिर्देवभवे देवायुर्दिव्यकामाश्च । सा वो नश्च ज्ञातैव । यानि अनेकवर्षनयुतानि दिव्यस्थितिदिव्यकामविषयभूतानि, 'जीयंति' इति हारयन्ति, तदपि ज्ञातमेव, तद्धेत्वनुष्ठानाऽकरणात् । दुर्मेधसो विषयैर्जिता जीवा ऊने वर्षशतायुषि श्रीवीरशासने वर्षशतायुष एव जन्तवः, इतीत्थमुपन्यासः, प्रभूते ह्यायुषि एकदा हारितान्यपि पुनर्जायेरन्, अस्मिंस्तु सङ्क्षिप्तायुषि एकदा हारितानि हारितान्येव । भावार्थोऽयं—मत्त्र्त्त्यार्भोगाः काकिण्याम्राभाः, सुराणामायुर्विषयाश्च कार्षापणसहस्रराजतुल्याः । यद्वा द्रमको राजा च काकिण्यम्रफलकृते कार्षापणसहस्रं राज्यं च हारितवानेवमेतेऽपि दुर्मेधसोऽल्पतरमनुष्यायुःकामार्थे प्रभूतान् देवायुः कामान् हारयन्ति ॥१३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org