________________
सप्तममौरभ्रीयमध्ययनम्
तओ कम्मगुरू जंतू, पच्चुप्पण्णपरायणे ।
अय व्व आगयाएसे, मरणंतंमि सोयइ ॥९॥ व्याख्या-ततो रज:सञ्चयात्तको वा सञ्चितरजाः, कर्मणा गुरुरधोगामितया कर्मगुरुर्जन्तुः, प्रत्युत्पन्नं वर्तमानं, तस्मिन् परायणस्तन्निष्ठः "एतावानेव लोकोऽयं । यावानिन्द्रियगोचरः'' [ष.स.८१] इति नास्तिकमतानुसारितया परलोकनिरपेक्षः, अज इव उरभ्र इवागते आदेशे प्राघूर्णके मरणान्ते शोचते, धिग्मां विषयव्यामोहार्जितगुरुकर्माणं, हा क्वेदानीं गन्तव्यं ! इत्यादिप्रलापान्नास्तिकस्यापि प्रायस्तदा शोकसम्भवात् । इत्यैहिकापाय उक्तः ॥९॥
पारलौकिकापायमाहतओ आउपरिक्खीणे, चुत्तो(चुआ) देहा विहिंसगा ।
आसुरियं दिसं बाला, गच्छंति अवसा तमं ॥१०॥ व्याख्या-ततः शोचनानन्तरं आयुषि परिक्षीणे, च्युतो भ्रष्टो देहात् (पाठान्तरे'चुआ देहा') च्युतदेहश्च्युतशरीरो विहिंसको विविधप्राणघाती, असुराणां रौद्रकर्मकारिणां इयमासुरी तां दिशं नरकगतिं बालोऽज्ञो गच्छति, अवशः कर्मपरवशः, तमोयुक्तत्वात्तमोरूपां, सर्वत्र बहुवचनं व्याप्त्यर्थं, यथा नैक एवंविधः, किन्तु बहवः ॥१०॥ उत्त उरभ्रदृष्टान्तो भोगविपद्वाची, अथ काकिण्यानदृष्टान्तौ भोगतुच्छताल्पकालताज्ञप्त्यै
जहा कागिणीए हेउं, सहस्सं हारए नरो ।
अपत्थं अंबगं भुच्चा, राया रज्जं तु हारए ॥११॥ व्याख्या-यथा काकिण्या रूपकाशीतितमभागरूपाया हेतोः सहस्त्रं कार्षापणानां हारयेन्नरः, अत्र दृष्टान्तः-यथैकेन द्रमकेण भिक्षां कृत्वा कार्षापणानां सहस्रमर्जयित्वा स्वगृहाय प्रस्थितेन शम्बलार्थं एकरूप्यकस्य काकिणीः कृत्वा दिने दिने भुञ्जताऽन्यदा मार्गे क्वापि एका काकिणी विस्मारिता । साथै प्रस्थिते सति मार्गे यान् स तां स्मृत्वा दध्यौ, मा मे रूपकान्तरभेदो भूयादिति कार्षापणवासनिकामेकान्ते सङ्गोप्य स काकिण्यर्थं निर्वृत्तः, काकिणी त्वेनन न लब्धा, पश्चादागतेन वासनिकापि केनापि हृता दृष्टा । एवं स उभयभ्रष्टो गृहेत्वा क्षुधा पीड्यमानो जनैश्च परिभूयमानोऽशोचत । एष काकिणीदृष्टान्तः । तथा अपथ्यमहितमाम्रफलं भुक्त्वा राजा, तुः एवार्थे राज्यं अहारयदेव । तत्कथेयंराज्ञोऽत्याम्रप्रियस्याम्राजीर्णेन विसूचिका जाता । महावैद्यैर्महता यत्नेन राजा पटुकृत्वोक्तः, आम्रभक्षणेन त्वं मरिष्यसि, राज्ञा स्वदेशे सर्वमाम्रवनमुच्छेदितम् । अन्यदा साऽमात्यो
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org