________________
११०
श्रीउत्तराध्ययनदीपिकाटीका-१ उक्तमेव गाथात्रयेण समर्थयतिहिंसे बाले मुसावाई, अद्धाणंमि विलोवए ।
अण्णदत्तहरे तेणे, माई कन्नुहरे सढे ॥५॥ व्याख्या-हिंस्रः स्वभावतः प्राणान् हिनस्ति, बालोऽज्ञः, मृषावादी, अध्वनि मार्गे विलुम्पति मुष्णातीति विलोपको मोषकः, अन्येभ्यो दत्तं राजादिना वितीर्णं हरत्यन्तरैव छिनत्तीत्यन्यदत्तहरः, अन्यैर्वा अदत्तं हरतीत्यन्याऽदत्तहरः, स्तैन्येन कृतवृत्तिः स्तेनः, मायी वञ्चकः, कस्यार्थं, नु वितर्के, हरिष्यामीत्याशयी कन्नुहरः, शठो वक्राचारः ।।५।।
इत्थीविसयगिद्धे य, महारंभपरिग्गहे ।
भुंजमाणे सुरं मंसं, परिवूढे परंदमे ॥६॥ व्याख्या-स्त्रीषु विषयेषु गृद्धः, महारम्भोऽनेकजन्तुघातकृद्व्यापारः, परिग्रहश्च धान्यादिसञ्चयो यस्यासौ महारम्भपरिग्रहः, सुरां मांसं च भुञ्जानः, परिवृढः प्रभुः पुष्टमांसशोणिततया तत्क्रियाक्षम इति । अत एव परानन्यान् दमयति, नृकृत्याऽकृत्येषु प्रवर्त्तते इति परन्दमः ॥६॥
अयकक्करभोई य, तुंदिल्ले चियलोहिए( सोणिए)।
आउयं निरए कंखे, जहाएसं व एलए ॥७॥ व्याख्या-अजश्छागस्तस्य कर्करं यच्चनकवद्भक्ष्यमाणं कर्करायते, तच्चेह मेदोऽतिपक्वं वा मांसं, तद्भोजी, अत एव तुण्डिलो जातबृहज्जठरः, चितमुपचितं लोहितं रक्तमस्येति च चितलोहितः, शेषधातूपलक्षणमेतत् , आयुर्जीवितं नरके सीमन्तकादौ काङ्क्षतीव, तद्योग्यकर्मारम्भितया, आदेशमिव यथैडकः ॥७॥ विषयिणामैहिकापायं गाथाभ्यामाह
आसणं सयणं जाणं, वितं कामाणि भुंजिया ।
(दुक्खाहडं) दुस्साहडं धणं हिच्चा, बहुं संचिणिया रयं ॥८॥ व्याख्या-आसनं, शयनं, यानं, वित्तं द्रव्यं, कामान् मनोऽन्यान् शब्दादीन् भुक्त्वा, दुःखेनात्मपरदुःखकरणेनाहृतमुपार्जितं दुःखाहृतं, यद्वा दुःखेन संह्रियते मील्यते स्मेति दुःसंहृतं, धनं हित्वा आसनाद्युपभोगेन द्यूताद्यऽसद्व्ययेन च त्यक्त्वा, तथा मिथ्यात्वाद्यैर्बहु प्रभूतं सञ्चित्योपाय॑, रजोऽष्टप्रकारं कर्म ||८||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org