________________
सप्तममौरभ्रीयमध्ययनम्
१०९ अम्बायमजो यथेष्टौदनयवसाद्यैर्नानालङ्कारैश्च पुत्र इव मन्यते, अहं त्वभाग्यः शुष्कतृणान्यपि बहूनि न लभे, पयोऽपि कोऽपि काले मां न पाययेत् । मात्रोचे वत्स !
आउरचिण्हाइं एयाई, जाइं चरइ नंदिओ ।
सुक्कतणेहिं लाढाहिं, एयं दीहाउलक्खणं ॥१॥ [उ.नि./गा.२४९] यस्मादातुरो मर्तुकामो यन्मार्गयति तत्पथ्यमपथ्यं वा दीयते, एवमस्याप्यजस्य पोषोऽर्चा च, यदा तदा चैष घातिष्यते, त्वं च रक्ष्यसे, ततोऽसौ मान्यतेऽजः ॥१॥ किं करोति इत्याह
तओ से पुढे परिवूढे, जायमेए महोदरे ।
पीणिए विउले देहे, आएसं परिकंखए ॥२॥ व्याख्या-ततस्तद्भोजनात् 'से' इति स उरभ्रः पुष्टः, उपचितमांसतया परिवृढः समर्थः, जातमेद उपचितचतुर्थधातुः, महोदरः प्रीणितो यथार्हदानेन, एवं विपुले विशाले देहे सति, आदेशं प्रतिकाङ्क्षतीत्युपमार्थो ज्ञेयः ॥२॥
ततः
जाव न एइ आएसे, ताव जीवइ से दुही ।
अह पत्तंमि आएसे, सीसं छेत्तूण भुज्जइ ॥३॥ व्याख्या-यावन्नति आदेश: प्राघूर्णकस्तावदेव जीवति स उरभ्रो दुःखी वध्यमण्डनमिवास्यौदनदानादि, तत्वतो दुःख्येव सः, अथ प्राप्ते आदेशे शीर्षं छित्वा द्विधा कृत्वा स्वामिना सहैव स प्राघूर्णकेन भुज्यते । अथ कथाशेषः-ततोऽसौ वत्सप्राघूर्णकेष्वागतेषु तमेडकं हतं दृष्ट्वा तृषितोऽपि भयेन मातुः स्तन्यं नैच्छत् । मात्रोचे किं पुत्र भयभीतः ? मे स्नेहक्षरत्पयोऽपि न पिबसि ? सोऽवक् सोऽजः प्राघूर्णकागमे मदग्रे निर्गतजिह्वस्तरलनेत्रो विस्वरं रसन् हतः, तद्भयान्मे कुतः पयःपानेच्छा ? मात्रोचे वत्स ! मया तदैवोचे, आतुरचिह्नान्येतानि, एष च तेषां विपाकः प्राप्तः ॥३॥
जहा खलु से उरब्भे, आएसाए समीहिए ।
एवं बाले अहम्मिटे, इहई नरयाउय( णिरआउयं) ॥४॥ व्याख्या-यथा खलु स उरभ्र आदेशाय समीहितः, कल्पितोऽयमस्मै भविष्यतीत्यादेशं परिकाङ्क्षति । एवं बालोऽतिशयेनाधर्मोऽधर्मिष्ठ ईहत इव ईहते तदनुकूलचारितया नरकायुष्कम् ॥४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org