________________
सप्तममौरभ्रीयमध्ययनम् ॥
निर्ग्रन्थत्वं तु रसाऽगृद्धेः स्यात् , सा च रसगृद्धानां कष्टदर्शनार्थं दृष्टान्तैः स्फुटं स्यादित्युरभ्रादिपञ्चदृष्टान्तयुक् सप्तममौरभ्रीयाध्ययनमाह-तत्राद्यो भोगिनां विपद्ज्ञप्त्यै उरभ्रदृष्टान्तः (१), कष्टहेतवो यथा भोगास्तथा तुच्छा अल्पकालसुखाश्चेति ज्ञप्त्यै द्वितीयतृतीयौ काकिण्यानदृष्टान्तौ (२-३), भोगिनामायव्ययज्ञप्त्यै वणिग्दृष्टान्तस्तुर्यः (४), आयव्ययतोलनाय देवनृभोगानां समुद्रकुशाग्रदृष्टान्तः पञ्चमः (५), यद्वाद्यो द्वितीयो विप्रकर्मत्वाद्विप्रस्य दृष्टान्तौ । तृतीयः क्षत्रियस्य, तुर्यो वणिजः, पञ्चमः सर्ववर्णेषु गुणिनां तपसे दृष्टान्तः ।। भोगिकष्टज्ञप्त्यै उरभ्रदृष्टान्तो यथा
जहाएसं समुद्दिस्स, कोइ पोसिज्ज एलगं ।
ओयणं जवसं दिज्जा, पोसेज्जा वि सयंगणे ॥१॥ व्याख्या-यथा आदिश्यते विविधव्यापारेषु परिजनोऽस्मिन्नायाते इत्यादेशः प्राघूर्णकः, तं समुद्दिश्याश्रित्य, यथादेशः समस्येति, स चैनं भोक्ष्यते, इति विचार्य कश्चित् परलोकापायनिरपेक्षः पोषयेत् पुष्टं कुर्यात् , एलकमूरणकं, ओदनं भक्तं तद्योग्यशेषान्नानि च, यवसं मुद्गमाषादि दद्यात् , एवं पोषयेत् , पुनर्वचनमादरज्ञप्त्यै । अपि सम्भावने, सम्भाव्यते एवेदं क्वापि गुरुकर्मा स्वकाङ्गणे, अन्यत्र निर्युक्तकाः कदाचिन्नोदनादि दास्यन्तीति स्वकाङ्गणोक्तिः “महोक्षं वा महाजं वा श्रोत्रियाय प्रकल्पयेत्' [ ] इति स्मृत्युक्तेः, विप्राणामियं कुमतिः स्यात् ।
अत्र दृष्टान्तो-यथैकोऽजोऽभ्यागतार्थं पोष्यते, स च पुष्टाङ्गः सुस्नातो हरिद्रादिकृताङ्गरागः कृतकर्णचूलो बालै नाक्रीडाभिः क्रीड्यते, तं च लाल्यमानं दृष्ट्वा कोऽपि वत्सो मात्राऽपत्यस्नेहेन गोपितं, गोदुहापि दयया मुक्तं क्षीरं नापात् , मात्रा पृष्टो जगौ रोषात्
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org