________________
षष्ठं क्षुल्लकनिर्ग्रन्थीयमध्ययम्
१०७ व्याख्या-इति स भगवानुदाहृतवान् , अनुत्तरज्ञानी सर्वोत्कृष्टज्ञानवान् , नाऽस्योत्तरमस्तीत्यनुत्तरं पश्यतीत्यनुत्तरदर्शी, विशेषसामान्यग्राहित्वाद् ज्ञानदर्शनयोः, अनुत्तरज्ञानदर्शने, भिन्नभिन्नसमयभावित्वेन युगपदुपयोगाऽभावेऽपि लब्धिरूपतया धारयतीत्यनुत्तरज्ञानदर्शनधरः, अत्र हि अनुत्तरज्ञानी अनुत्तरदर्शीतिभेदाभिधानेन ज्ञानदर्शनयोभिन्नकालो ज्ञेयः, प्राधान्यमाश्रित्य विशेषसामान्ये भिन्नक्रमकाले विवक्षिते, न तु कदाप्यस्पष्टज्ञानता ज्ञेया, अर्हतीन्द्रादिभ्यः पूजामित्यर्हन् तीर्थकृत् , ज्ञात उदारक्षत्रियः सिद्धार्थस्तस्य पुत्रो महावीरो भगवान् समग्रैश्वर्यादिवान् , विशाला: शिष्यास्तीर्थं यशःप्रभृतिगुणा वा यस्येति वैशालिकः, “वियाहिय'त्ति व्याख्याता कथिता सदेवमनुजासुरायां पर्षदि (पाठान्तरे-एवं से उदाहु अरहा पासे पुरिसादाणीए भगवं वेसालिए बुद्धे परिनिव्वुडे त्ति) अर्हन् सामान्योक्तावपि प्रक्रमान्महावीरः, पश्यति समस्तभावान् केवलेनेति पश्यंस्तथा पुरुषश्चासौ आदानीयश्च पुरुषादानीयः, पुरुषविशेषणं पुरुष एव प्रायस्तीर्थकृदिति ज्ञप्त्यै, पुरुषैर्वा आदानीयो ज्ञानादिगुणतया पुरुषादानीयः, इति समाप्तौ ब्रवीमीति प्राग्वत् ॥१८॥
इति क्षुल्लकनिम्रन्थीयं षष्ठमध्ययनमुक्तम् ॥६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org