________________
१०६
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-विविच्य पृथक्कृत्य कर्मणो ज्ञानावरणादेर्हेतुं मिथ्यात्वाऽविरत्यादि, कालमनुष्ठानप्रस्तावं काङ्क्षतीत्येवंशीलः कालकाङ्क्षी परि समन्ताद् व्रजेः संयमे, इतिमात्रां यावत्या संयमनिर्वाहस्तावती ज्ञात्वा पिण्डस्याऽन्नादेः पानस्याचामादेः, खाद्यस्वाद्याऽग्रहणं एतैः, उत्सर्गतस्तदनुभागात् , कृतमात्मार्थमेव गृहिभिः, लब्ध्वा भक्षयेत् ॥१५॥ भुक्तशेषं न स्थाप्यमित्याह
सन्निहिं च न कुग्विज्जा, लेवमायाय संजए ।
पक्खी पत्तं समायाय, निरविक्खो परिव्वए ॥१६॥ व्याख्या-सम्यगेकीभावेन निधीयते निक्षिप्यतेऽनेनात्मा नरकादिष्विति सन्निधिः, प्रातरिदं भोक्ष्यते इत्याशया यदन्नादि स्थापनं तन्न कुर्वीत । चः निश्चये, लेपमात्रया, यावता पात्रं लिप्यते तन्मात्रयापि सन्निधिं, यद्वा लेपमेकं मर्यादीकृत्य न स्वल्पमप्यन्यत् सन्निदधीत संयतः, यथा पक्षी पत्रं पक्षसञ्चयं समादाय परिव्रजति, एवं भिक्षुः पात्रमुपकरणं च समादाय निरपेक्षो निरीहः, तस्य वा विनाशादौ शोकाऽकृतेनिस्सङ्गः परिव्रजेत् संयममार्गे, एवं च प्रत्यहमयमपलीमन्थभीरुतयाऽहिंसास्वाध्यायादिहानित्यागाय पात्राद्युपकरणसन्निधावपि न दोषः ॥१६।। कृतं लब्ध्वा इति प्रागुक्तं स्पष्टयति
एसणासमिओ लज्जू, गामे अनियओ चरे ।
अपमत्तो पमत्तेहिं, पिंडपायं गवेसए ॥१७॥ व्याख्या-एषणायां उत्पादनग्रहणग्रासविषयायां सम्यगितः स्थित एषणासमितः, प्राधान्याच्च इहैषणाग्रहणं, प्रायस्तद्भावे ईर्याभाषासमित्यादिसम्भव इति ज्ञप्त्यै, एवमनिश्रितगतिरुक्ता । लज्जाशब्देन संयमस्तद्वान् यतिरपि लज्जा, आर्षत्वाच्चैवं निर्देशः, ग्रामे उपलक्षणान्नगरादौ, अनियतः अनित्यवासश्चरेत् , इति निरपेक्षतैवोक्ता । अप्रमत्तः सन् विषयादिप्रमादाऽसेवनात् , प्रमत्तेभ्यो गृहिभ्यः पिण्डपातं भिक्षां गवेषयत् ॥१७॥
इति संयमस्वरूपोक्त्योक्तं निर्ग्रन्थस्वरूपं, अथाध्ययनार्थवक्तारमाहएवं से उयाहु अणुत्तरनाणी, अणुत्तरदंसी अणुत्तरनाणदंसणधरे। अरहा णायपुत्ते, भयवं वेसालिए वियाहिए ॥१८॥ त्ति बेमि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org