________________
१०५
षष्ठं क्षुल्लकनिर्ग्रन्थीयमध्ययम् उपदेशसारमाह
आवण्णा दीहमद्धाणं, संसारंमि अणंतए ।
तम्हा सव्व दिसं पस्स, अप्पमत्तो परिव्वए ॥१३॥ व्याख्या-एते मुक्तिवैरिणो वादिनः, आपन्नाः प्राप्ता दीर्घमनाद्यन्तमध्वानं उत्पत्तिप्रलयरूपं, अन्यान्यभवभ्रमणैकत्रस्थित्यभावात् , संसारे गतिचतुष्टयेऽनन्तके अविद्यमानान्ते, तस्मात् तान् वादिन उपेक्ष्य, सर्वा दिशो भावदिश:
पुढविजलजलणवाया, मूला खंधग्गपोरबीया य । बितिचउपणिदितिरिया, नारया देवसंघाया ॥१॥ [ ] समुच्छिमकम्माकम्म-भूमिगनरा तहंतरद्दीवा।
भावदिसा दिस्सइ जं, संसारी निययमेयाहिं ॥२॥ [ ] ता एताः पश्यन्नप्रमत्तो यथेषामेकन्द्रियाणां विराधना न स्यात्तथा परिव्रजेत् संयमाध्वनि, यद्वा संसारापन्नानां सर्वदिशो दृष्ट्वा चाप्रमत्तो यथैतासुन भ्रमसि तथा परिव्रज? हे सुशिष्य!॥१३।।
अप्रमत्तमार्गमाह
बहिया उड्डमायाय, नावकंखे कयाइवि ।
पुव्वकम्मक्खयट्ठाए, इमं देहं समुद्धरे ॥१४॥ व्याख्या-बहिर्भूतं संसारादूर्ध्वं सर्वोपरिस्थं अर्थान्मोक्षमादाय, मयैतस्मै यत्यमिति निश्चित्य, यद्वा बहिरात्मनो बहिर्भूतं धनधान्यादि, च ऊर्ध्वं मोक्षमादाय हेयत्वेनादेयतया च ज्ञात्वा नावकाङ्क्षद्विषयादीन् , न क्वचिद्रागं कुर्यात् , कदाचिदपि वा, परीषहोपसर्गाद्याकुलत्वेऽपि, आस्तामन्यदा, एवं सति देहधारणमप्ययुक्तमेव, तद्धारणे सत्याकांक्षासम्भवात् तस्यापि चात्मनो बहिर्भूतत्वादेवेति ध्यात्वाह–'पुव्व' इत्यादि पूर्वकर्मणां क्षयार्थमिदं देहं समुद्धरेत् शुद्धाहाराद्यैः, तत्पाते ह्यन्यभावोत्पत्तावविरतिः स्यात् । उक्तंच
सव्वत्थ संजमं, संजमाउ अप्पाणमेव रक्खिज्जा ।
मुच्चइ अइवायाओ, पुणो विसोही नयाविरई ॥१॥ [ओघ.नि./गा.४७] ततः शरीरोद्धरणमपि निस्सङ्गतयैव कार्यम् ॥१४।।
देहपालनेऽपि निस्सङ्गताविधिमाह
विगिंचि कम्मुणो हेडं, कालकंखी परिव्वए । मायं पिंडस्स पाणस्स, कडं लभ्रूण भक्खए ॥१५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org