________________
१०४
तथा चाह
भणंता अकरंता य, बंधमोक्खपइण्णिणो ।
वायावीरियमेत्तेणं, समासासंति अप्पयं ॥१०॥
श्रीउत्तराध्ययनदीपिकाटीका - १
व्याख्या - भणन्तो वदन्तो ज्ञानमेव मुक्त्यङ्ग, अकुर्वन्तश्च क्रियां, बन्धमोक्षयोः प्रतिज्ञावन्तो बन्धमोक्षप्रतिज्ञिनो बन्धमोक्षस्थापका अक्रियिणः, वाग्वीर्यमात्रेण समाश्वासयन्ति, ज्ञानादेव वयं मुक्तिगामिन इति स्वस्थयन्त्यात्मानम् ॥१०॥
ततश्च
ण चित्ता तायए भासा, कुओ विज्जाणुसासणं । विसण्णा पावकम्मेहिं, बाला पंडियमाणिणो ॥ ११ ॥
व्याख्या - भाषा प्राकृतसंस्कृतादिरूपा आर्या, विषयं ज्ञानमेव मुक्त्यङ्गमित्यादिर्वा भाषा [चित्रा] न त्रायते पापेभ्यः, अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव इत्यघोरमन्त्रात्मिका विद्या त्राणाय भविष्यतीत्याह - कुतो विद्याया विचित्रमन्त्रात्मिकाया अनुशासनं शिक्षणं त्रायते पापात् ? न कुतोऽपि तन्मात्रादेव मुक्तौ शेषानुष्ठानवैयर्थ्यात् । ते तु विविधमनेकप्रकारं सन्ना मग्ना विसन्ना पापकर्मसु हिंसाहेत्वनुष्ठानेषु सततं तत्कारयेयुरिति । यद्वा (पाठान्तरे - ' विसन्ना पावकिच्चेहिं' विषण्णा विषादं गताः पापकर्मभिहिंसाद्यैर्यथा कथमेवं कर्मभिर्वयं भविष्याम इति ।) बाला रागद्वेषाकुलिताः, पण्डितमात्मानं मन्यन्ते इत्येवंशीलाः पण्डितमानिनः । ये बालाः पण्डितमानिनो न स्युस्ते सम्यगजानानाः परं पृच्छेयुरुपदेशाच्च तानि पापकर्माणि त्येजेयुर्न तु विषण्णा एवासीरन्, ये तु बालाः पण्डितमानिनश्च ते स्वयमज्ञा अपि ज्ञत्वगर्वाद् गुणवतोऽनुपासमानाः स्युः ॥११॥ मुक्तिपथद्वेषिणां दोषानाह
जे केइ सरीरे सत्ता, वण्णे रूवे य सव्वसो । मणसा कायवक्वेणं, सव्वे ते दुक्खसंभवा ॥१२॥
व्याख्या- ये केचित् शरीरे स्नानादिभिः सक्ताः, वर्णे सुस्निग्धगौरत्वादिके, रूपे सौन्दर्ये, चात् स्पर्शादिषु वस्त्रादिषु च सर्वशः सर्वैः स्वयंकरणकारणादिभिः प्रकारैर्मनसा, कथं वर्णादिवन्तो वयं भविष्याम इति कायेन रसायनाद्युपभोगेन, वाक्येन रसायनादिप्रश्नेन, देहजरादिहानिहेत्वध्यात्मक्रियया वा, ते सर्वे ज्ञानवादिनो दुःखसम्भवा इहामुत्र च दुःखभाजनम् ॥१२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org