________________
१०३
षष्ठं क्षुल्लकनिर्ग्रन्थीयमध्ययम् हिंसाश्रवनिरोधमुक्त्वा शेषाश्रवनिरोधमाह
आयाणं नरयं दिस्स, णायइज्ज तणामवि ।
दोगुच्छी अप्पणो पाए, दिन्नं भुंजेज्ज भोयणं ॥८॥ व्याख्या-आदीयते इत्यादानं धनधान्यादि, आर्षत्वादादानीयं वा, तदेव नरकहेतुत्वान्नरकं दृष्ट्वा नाददीत, 'तणामवि' तृणमपि, किन्तु प्राणाधारणाय, जुगुप्सते आत्मानं आहारमन्तरेण धर्माक्षममित्येवंशीलो जुगुप्सी आत्मनः पात्रे दत्तं भोजनसमये गृहस्थैर्भुञ्जीत भोजनमाहारं । जुगुप्सिशब्देनाहाराऽनिच्छादर्शनात् परिग्रहावरोध उक्तः, तदेवं 'तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इतिन्यायान्मृषावादाऽदत्तादानमैथुनात्माश्रवत्रयरोध उक्तः । यद्वा 'सच्चमेसिज्जा' सत्यशब्देन साक्षात् संयममपि वदता मृषावादनिवृत्तिरुक्ता । आदानं हि ग्रहणमेव रूढं तच्चाऽदत्तस्येति गम्यं । एतेनाऽदत्तादानविरतिरुक्ता । 'गवासम्' इत्यादिना तु परिग्रहनिरोध उक्तः, तन्निरोधान्नाऽपरिगृहीता स्त्री भुज्यते इति मैथुननिरोध उक्त एव । 'अप्पणो पाए' इति पात्रग्रहणं, माभून्नि:परिग्रहतया पात्रस्याप्यग्रहणमिति कस्यचिद्वयामोह इति । तदगृहे तादृग्लब्ध्यभावेन पाणिभोक्तृत्वाऽभावाद् गृहिभाजने बहुदोषः “पच्छाकम्मं पुरेकम्म" [ द.६।५३] इत्यादि । एवं पञ्चाश्रवविरमणात् संयम उक्तः ॥८॥ यथात्र परे विप्रतिपद्यन्ते तथा दर्शयति
इहमेगे उ मन्नंति, अप्पच्चक्खाय पावगं ।
आयरियं विदित्ताणं सव्वदुक्खा विमुच्चइ ॥९॥ व्याख्या-इहास्मिन् जगति मुक्तिमार्गविचारे वा एके कपिलादिकुतीर्थ्यास्तु मन्यते प्ररूपयन्ति च, यथा अप्रत्याख्याय पापकं हिंसाविरतिमकृत्वा, आर्य तत्वं यद्वाऽऽचारिक निजनिजाचारभवमनुष्ठानमेव विदित्वा स्वसंवेदनेनानुभूय सर्वदुःखेभ्य आध्यात्मिकाधिभौतिकाधिदैविकलक्षणेभ्यः शारीरमानसेभ्यो वा मुच्यते । आहुश्च
पञ्चविंशतितत्त्वज्ञो, यत्र तत्राश्रमे रतः ।
जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः ॥१॥ [शा.वा./३-३७] तेषां ज्ञानमेव मुक्त्यङ्गं । नचैतच्चारु, न हि रोगेभ्य इवौषधादिज्ञानाद्भावरोगेभ्यो ज्ञानावरणादिकर्मभ्यश्चारित्रादिज्ञानादेव महाव्रतात्मकपञ्चाङ्गोपलक्षितक्रियामननुष्ठाय मुक्तिः, ते चैवमनालोचयन्तो भवदुःखाकुलिता वाचालतयैवात्मानं स्वस्थयन्ति ॥९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org