________________
१०२
श्रीउत्तराध्ययनदीपिकाटीका-१ एतं पूर्वोक्तमर्थं स्वप्रेक्षया स्वबुद्ध्या पश्येदवधारयेत् , शमितं दर्शनं मिथ्यात्वात्मकं येन स शमितदर्शनः, यद्वा सम्यगितं गतं जीवादिपदार्थेषु दर्शनं दृष्टिरस्येति स सम्यगितदर्शनः सम्यग्दृष्टिः सन् छिन्द्याद गुद्धि विषयाकाङ्क्षा, स्नेहं च स्वजादिषु, तथा पूर्वसंस्तवं पूर्वपरिचय एकग्रामोषितोऽयमित्यादिकं, अपेर्गम्यत्वान्नापि काक्षेत ॥४॥
अथ फलमाह
गवासं मणि कुंडलं, पसवो दासपोरुसं ।
सव्वमेयं चइत्ताणं, कामरूवी भविस्ससि ॥५॥ व्याख्या-गावश्च अश्वाश्च गवाश्वं, तत्राश्वगावो वाहदोहोपलक्षिताः, पशुत्वेऽप्यनयोः पृथगादानं गाढोपयोगित्वेन प्राधान्यात्, मणयो मरकतादयः स्वर्णादि च, कुण्डलं शेषाभरणानि च, पशवोऽजैडकादयः, दासा गृहजाताद्याः, पौरुषं पदात्यादिसमूह, सर्वमेतत्त्यक्त्वा संयमं प्रपाल्य कामरूपी भविष्यसि, इहैव वैक्रियादिलब्धेः, परत्र च देवत्वाद्याप्तेः ॥५॥
पुनद्वितीयगाथोक्तं सत्यमेव विशेषत आह
थावरं जंगमं चेव, धणं धन्नं उवक्खरं ।
पच्चमाणस्स कम्मेहि, नालं दुक्खाओ मोयणे ॥६॥ व्याख्या स्थावरं गृहारामादि, जंगमं मनुष्यादि, 'चेव'त्ति समुच्चये, धनं, धान्यं, उपस्करं गृहोपकरणं, एतानि कर्मभिः पच्यमानस्य दुःखाग्निना तप्यमानस्य जीवस्य दुःखाद्विमोचने नालं न समर्थानि ॥६॥
अज्झत्थं सव्वओ सव्वं, दिस्स पाणे पियायए ।
न हणे पाणिणो पाणे, भयवेराओ उवरए ॥७॥ व्याख्या-आत्मनि यद्वर्त्तते तदध्यात्म, यद्वा अध्यात्म मनस्तस्मिस्तिष्ठतीत्यध्यात्मस्थं, सूत्रत्वाद्वर्णलोपः, तच्चेह सुखं दुःखं च, सर्वत इष्टसंयोगाऽनिष्टवियोगादिहेतुजं, सर्वं शारीरं मानसिकं च दृष्ट्वा प्रियत्वाऽप्रियत्वस्वरूपेणावधार्य, तथा पाणे प्राणिनः प्रिया दया रक्षणं येषां तान् प्रियदायान् , प्रिय आत्मा येषां तान् प्रियात्मकान् वा दृष्ट्वा न हन्यात् प्राणान्नापि घातयेत् , प्राणान् घ्नन्तं च नानुजानीयात् प्राणिन इति, जातावेकवचनं । भयं सप्तधा, वैरं प्रद्वेषस्तस्माद्भयवैरादुपरतो निर्वृत्तः सन् ॥७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org