________________
षष्ठं क्षुल्लकनिर्ग्रन्थीयमध्ययम्
१०१
स तमेवाऽश्रयत् । स भक्त्या प्रीत ऊचे किं ते ददे ? स ऊचे त्वत्प्रसादेनाहमप्येवं भोगान् भुजे । तेन किं विद्यां लासि ? उत विद्याभिमन्त्रितं घटमित्युक्ते स विद्यासाधनादिकष्टभीरुतयोचेऽभिमन्त्रितं घटं देहि ? तेनाभिमन्त्र्य घटो दत्तः, तल्लात्वा स्वग्राममेत्य सौधं विकुर्व्य स्वबन्धुयुक् भोगान् भुङ्क्ते, एवं तस्य बन्धूनां च सर्वे स्वाजीविकोपायाः शिथिलीभूताः, गवाश्वादयोऽप्यसारिता गताः, अन्यदा सोऽतिहर्षाद्धटं स्कन्धे धृत्वा पीतासवोऽ नृत्यत्, प्रमादाद् घटश्च भग्नो नष्टश्च । पश्चात् स तत्स्वजनाश्चाऽधनाः परप्रेष्यताद्यैर्दुःखान्यन्वभवन् । चेत्तदा स विद्यामलास्यत् तदा घटं नवमप्यकरिष्यत् । एवमविद्यानराः क्लिश्यन्ते । दृश्यन्ते हि यानपात्रिण इहैव मोहाद्दिग्मूढा जलान्तर्गिर्यास्फालनस्फुटितपोताः कल्लोलैः क्षिप्यमानाः कूर्ममकराद्यैर्विलुप्यन्ते, एवं तेऽविद्या बहुशो मूढाः शारीरमानसैर्महादुःखैर्विलुप्यन्ते, अन्येऽप्यर्था अस्यां गाथायां सन्ति परं विस्तरभयान्नोक्ताः ||१|| यतश्चैवं ततः कृत्यमाह
समिक्ख पंडिए तम्हा, पासज्जाइप बहू |
अप्पणा सच्चमेसिज्जा, मित्तिं भूएस ( हिं) कप्पए ॥२॥
7
व्याख्या-समीक्ष्यालोच्य पण्डितो हिताऽहिते विवेकी, 'तम्हा' त्ति यस्मादेवाऽविद्यावन्तो लुप्यन्ते तस्मात् पाशाः पारवश्यहेतवो भार्यादिसम्बन्धास्त एव तीव्रमोहोदयादिहेतुतया जातीनामेकन्द्रियादिजातीनां पन्थानो मार्गाः पाशजातिपथास्तान् बहून् प्रभूतान्। अविद्यावतां विलुप्तिहेतुकृत्, आत्मना स्वयं न परोपरोधादिभिः, सद्द्भ्यो जीवेभ्यो हितः सत्यः संयम आगमो वा, तमेषयेद् गवेषयत्, मैत्रीं मित्रभावं भूतेषु पृथ्व्यादिषु जन्तुषु कल्पयेत् । (पाठान्तरे–‘अत्तट्ठा सच्चमेसिज्जा' आत्मार्थं सत्यमेषयेत् गवेषयत्,) न तु परार्थं, अपरकृतस्याऽपरत्राऽसङ्क्रमणेन परार्थानुष्ठानस्याऽनर्थकत्वात् ॥२॥
अपरं च
माया पिया हुसा भाया, भज्जा पुत्ता य ओरसा । नालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा ॥३॥ एयम सपेहाए, पासे समिदंसणे ।
छिंद गिहिं सिणेहं च, न कंखे पुव्वसंथवं ॥४॥ गाथाद्वयव्याख्या- माता, पिता, स्नुषा वधूः, भ्राता, भार्या, पुत्राः, कथम्भूताः पुत्राः ? ओरसि भवा औरसाः स्वयमुत्पादिताः, नालं न समर्थास्ते मात्रादयो मम त्राणाय रक्षणाय लुप्यमानस्य छिद्यमानस्य स्वकृतेन कर्मणा ज्ञानावरणीयादिना || ३ ||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org