________________
१००
श्रीउत्तराध्ययनदीपिकाटीका-१ पुलाकवत् , कषायकुशीलनिर्ग्रन्थस्नातका निर्दोषा मूलोत्तरगुणयोः बकुशप्रतिसेवनाकुशलीयोः सर्वा लेश्याः, पुलाककषायकुशीलयोस्तेजोलेश्याद्यास्तिस्रः, निर्ग्रन्थस्नातकयोः शुक्ललेश्या । पुलाक उत्कृष्टस्थितिषु सहस्रारदेवेषु, बकुशप्रतिसेवनाकु शीलौ द्वाविंशतिसागरेषूत्पद्यते, कषायकुशीलनिर्ग्रन्थौ सर्वार्थे, जघन्यतः सर्वे पल्यपृथक्त्वस्थितौ सौधर्मे, एवं निर्ग्रन्थाः पञ्चविधा उक्ताः, प्रमादादिना सेवमाना अपि पुनः पश्चात्तापिनः संयमादृताः, इह ग्रन्थो द्विधा, तयोर्द्रव्यतः
क्षेत्रं १ वास्तु २ धन ३ धान्य-संग्रहो ४ मित्र ५ ज्ञातियसंयोगः ६ । यान ७ शयन ८ आसनानि ९, दासी १० दासाश्च ११ कुप्यं १२ च ॥१॥[] इति द्वादशधा । आन्तरस्तुमिच्छत्तं १ वेयतिगं ४, हासाइ छच्चगं च नायव्वं १० । कोहाईण चउक्कं १४, चउदस अभितरा गंठी ॥१॥ [प्रव.सा./गा.७२१] द्रव्यभावग्रन्थेभ्यो मुक्तो निर्ग्रन्थः, तस्याचाराध्ययनमिदम् ।
इह प्रागध्ययने सकाममरणं म्रियते इत्युक्तं, स तु मननान्मुनिरिति ज्ञान्येव, ये त्वज्ञानिनस्तानाह
जावंतऽविज्जापुरिसा, सव्वे ते दुक्खसंभवा ।
लुप्पंति बहुसो मूढा, संसारंमि अणंतए ॥१॥ व्याख्या-यावन्तो वेदनं विद्या तत्वज्ञानं, न विद्या अविद्या मिथ्यात्वोपहतकुत्सितज्ञानं, तत्पूर्णाः पुरुषा अविद्यापुरुषा विद्याहीना वा अविद्यापुरुषाः, ते सर्वे अविद्यापुरुषाः, दुःखस्य सम्भवो येषु ते दुःखसम्भवाः, यद्वा दुःखं करोति दुःखयति, ततो दुःखं पापं कर्म, ततस्तस्य सम्भव उत्पत्तिर्येषां ते दुःखसम्भवाः, लुप्यन्ते दारियाद्यैर्बाध्यन्ते, बहुशोऽनेकशो मूढा हिताऽहितविवेचनं प्रत्यसमर्थाः, संसारेऽनन्तकेऽविद्यमानां ते, अनेन चानन्तसंसारिकतादर्शनेन तादृशां पण्डितमरणाऽभाव उक्तः ॥१॥
__अत्र दृष्टान्तः-एको ग्राम्यो दारिद्येण गृहान्निर्गत्य पृथ्वीमभ्रमत् , परं भिक्षापि तेन नाप्ता । पुनर्गृहं प्रति प्रत्यावृत्तः, एकस्मिन् ग्रामे पाणपाटकपार्श्वे देवकुले रात्रौ स स्थितः, देवकुलादेकः पाणश्चित्रहस्तो निर्गत्यैकदेशे स्थित्वा घटमूचे, शीघ्रं गृहं कुर्वित्युक्ते गृहं जातं, एवं यद्यत् सोऽवक् तद्धटोऽकरोत् , यावच्छय्यायां स्त्रीभिः सह भोगान् सोऽभुङ्क्त । प्रातस्तेन सर्वं जहे । स ग्राम्यस्तद् दृष्ट्वा दध्यौ मुधाहं बहुक्ष्मामभ्रमं, एतमेव सेवे । अथ
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org