________________
पञ्चममकाममरणीयाध्ययनम्
९७ मरणात् पण्डितमरणस्य विशिष्टत्वं, भक्तपरिज्ञादिमरणत्रयस्य च विशेषमादाय ज्ञात्वा, तथा दयाधर्मस्य यतिधर्मस्य विशेषं शेषधर्मातिशायित्वं चादाय, क्षान्त्या मार्दवादिभिश्च विप्रसीदेत् विशेषेण प्रसन्नतां भजेत् , न तु मरणादुद्विजेत, मेधावी मर्यादावान्, तथाभूतेनोपशान्तमोहोदयेन, यद्वा यथैव मरणकालात् प्रागनाकुलचेता अभूत् , तथैव मरणकालेऽपि स्थिरेण, तथाभूतेनाऽकषायेणात्मना स्वयं प्रसीदेदिति सम्बन्धः, न तु कृतद्वादशवर्षसंलेखनतादृक् तपस्विवन्निजाङ्गलिभङ्गादिना कषायितया भवितव्यमिति ॥३०॥ प्रसन्नस्य कृत्यमाह
तओ काले अभिप्पेए, सड्डी तालिसमंतिए ।
विणएज्ज लोमहरिस, भेयं देहस्स कंखए ॥३१॥ व्याख्या-ततः कषायोपशमात् काले मरणकालेऽभिप्रेतेऽभिरुचिते सति । कदा च मरणमभिप्रेतं यदा योगा नोत्सर्पन्ति तादृशामितिचिन्तनरूपं भयोत्थं रोमहर्ष, हा मे मरणं भावीति भयोत्थं, श्रद्धावान् गुरूणामन्तिके विनयेद् विनाशयेत् , च भेदं विनाशं देहस्य काङ्क्षद्अभिलषेत् , त्यक्तपरिकर्मत्वात् , न तु मरणाशंसया, अथवा 'तालिस'त्ति यादृशः प्रव्रज्याप्रतिपत्तिकाले संलेखनाकालेऽपि श्रद्धावान् तादृश एव मरणकालेऽपीति ॥३१॥ निर्गमयति
अह कालंमि संपत्ते, आघायाय समुस्सयं ।
सकाममरणं मरइ, तिण्हमण्णयरं मुणि ॥३२॥ त्ति बेमि व्याख्या-अथ मरणेच्छानन्तरम्
निप्फाइया य सीसा, सऊणी जह अंडगं पयत्तेणं ।
बारससंवच्छरियं, अह संलेहंतो करेइ ॥१॥ [आचा.गा.२६७] इत्यादि, क्रमेण सम्प्राप्ते मरणकाले, आघातयन् संलेखनादिभिरा समन्ताद् घातयन् विनाशयन् , समुच्छ्यमन्तः कार्मणशरीरं बहिरौदारिकं, सकाममरणं साभिलाषमरणं, तेन म्रियते, त्रयाणां भक्तपरिज्ञाइङ्गिनीपादपोपगमनानामन्यतरेण मुनिस्तपस्वी । इति परिसमाप्तौ ब्रवीमीति प्राग्वत् ॥३२॥
इति पञ्चममकाममरणीयाध्ययनमुक्तम् ॥५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org