SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ पञ्चममकाममरणीयाध्ययनम् ९५ कायेन मनसा वाचा च स्पृशति सेवते समाचरति निःशङ्कितकालपाठाद्यमित्यर्थः, पोषधं आहारपोषधादिस्तं द्वयोरपि सितसितेतरपक्षयोश्चतुर्दशीपौर्णिमास्यादिषु तिथिषु, अपेर्गम्यत्वादेकरात्रमपि, उपलक्षणादेकदिनमपि 'न हावए' न हानि प्रापयेत् , रात्रिग्रहणं दिवाव्याकुलतायां सत्यां रात्रावपि कुर्यात् , सामायिकाङ्गत्वेनैव सिद्ध पौषधस्य भेदेनोपादानमादरदीप्त्यै ।।२३।। उक्तमर्थं निगमयति एवं सिक्खासमावण्णो, गिहवासे वि सुव्वओ । मुच्चइ च्छविपव्वाओ, गच्छे जक्खसलोगयं ॥२४॥ व्याख्या-एवमुक्तरीत्या शिक्षया व्रतसेवनया समापन्नो युक्तो गृहवासेऽपि सुव्रतः शोभनव्रतो मुच्यते, छविस्त्वक्, पर्वाणि जानुकूर्परादीनि, तद्योगादौदारिकशरीरं यच्छविपर्वात्मकं तस्मात् , गच्छेद्यक्षैर्देवैः सलोकतां समानलोकतां, अर्थाद्देवगति यायात् । पण्डितमरणावसरेऽपि प्रसङ्गतो बालपण्डितमरणमुक्तम् ॥२४॥ पण्डितमरणमाह अह जे संवुडे भिक्खू, दोण्हमण्णयरे सिया । सव्वदुक्खप्पहीणे वा, देवे वा वि महिड्डिए ॥२५॥ व्याख्या-अथेति प्रारम्भे यः संवृतः स्थगिताश्रवो भिक्षुर्भावभिक्षुर्द्वयोरन्यतर: कोऽपि स्यात् , कथं ? सर्वदुःखप्रहीणः सिद्धो वा देवो वा, अपि सम्भावने, संहननादिवैकल्यमहद्धिकः सम्भवेत् ॥२५।। तद्देवयोग्यावासनाह उत्तराई विमोहाई, जुईमंताणुपुव्वसो । समाइण्णाइं जक्खेहिं, आवासाइं जसंसिणो ॥२६॥ दीहाऊया इड्डिमंता, समिद्धा कामरूविणो । अहुणोववण्णसंकासा, भुज्जो अच्चिमालिप्पभा ॥२७॥ व्याख्या-उत्तरा उपरिवर्तिनोऽनुत्तरविमानाख्याः सर्वोपरिवर्तित्वात्तेषां, विमोहा इत्यल्पवेदादिमोहोदयतया विमोहाः, यद्वा मोहो द्विधा, द्रव्यतोऽन्धकारो भावतो मिथ्यात्वादिः, सततरत्नोद्योते सम्यक्त्वे च मोहाऽसम्भवाद्विगतो मोहो येषु ते विगतमोहाः, तथा द्युतिरन्यातिशायिनी येषु ते द्युतिमन्तः, अनुपूर्वतः क्रमेण सौधर्माद्यनुत्तरान्तेषु विमोह Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy