________________
श्रीउत्तराध्ययनदीपिकाटीका-१ देसिक्कदेसविरया, समणाणं सावगा सुविहियाणं ।
जेसिं परपासंडा, सइमं पि कलं न अग्छति ॥१॥[ ] एतेन चारित्रभावदर्शनेन पण्डितमरणं समर्थितम् ॥२०॥ नन्वन्यतीर्थिनो लिङ्गं दधति, कथं तेभ्योऽगारस्थाः संयमोत्तराः ? इत्याह
चीराजिणं निगणिणं, जडी संघाडि मुंडिणं ।
एताई पि न ताइंति, दुस्सीलं परियागयं ॥२१॥ व्याख्या-चीराणि चीवराणि, अजिनं च मृगादिचर्म, तच्चीराजिनं, 'निगणिणं' नाग्न्यं, 'जडि'त्ति जटित्वं, सङ्घाटी वस्त्रजनितकन्थाधारित्वं, मुण्डित्वं च, एतान्यपि निजनिजप्रक्रियाव्रतवेषरूपाणि लिङ्गानि नैव त्रायन्ते भवाद्दुःकृतकर्मणो वा, दुःशीलं दुराचारं पर्यायागतं प्रव्रज्यापर्यायप्राप्तमपि न त्रायते । न हि कषायकलुषितचेतसो लिङ्गादिधारणं कुगतिनिवारणायालमिति ॥२१॥
गृहाद्यभावे कथं दुर्गतिरित्युच्यते
पिंडोलए व दुस्सीले, नरगाओ न मुच्चइ ।
भिक्खाए वा गिहत्थे वा, सुव्वए कम्मई दिवं ॥२२॥ व्याख्या-वाशब्दः अपिशब्दार्थः, पिण्डमवलगति सेवते इति पिण्डावलगो यः परदत्तोपजीवी, सोऽपि दुःशीलो नरकादेर्न मुच्यते, रङ्कवत्
यथा राजगृहे रङ्कः पुरे भिक्षामलब्ध्वाऽारक्षकोक्त्योद्यानिकायां जनं वैभारगिरितले गतं ज्ञात्वा तत्र गतः, प्रमत्ते जने तत्राप्यलब्धभिक्षो रुष्टो जनोर्ध्वं शिलामोचनाशयेन गिर्यारूढः शिलां चालयन् स्खलितो रौद्रध्यायी पतच्छिलया चूर्णितो गतः सप्तमी क्ष्मां, जनस्तु नष्टः ।
अथ सुगतिहेतुमाह-'भिक्खाए'त्ति' भिक्षामत्ति अकति वेति भिक्षादो भिक्षाको वा यतिः, गृहस्थो वा सुव्रतः शोभनव्रतः शोभनं निरतिचारतया सम्यग्भावानुगततया च व्रतं यस्य स 'दिवं' देवलोकं क्रामति, मुख्यतो मुक्तिहेतुत्वेऽपि व्रतपालको देवलोकं याति ॥२२॥
गृह्यपि यथा दिवं याति तथाह__ अगारिसामाइयंगाई, सड्डी काएण फासए ।
पोसहं दुहओ पक्खं, एगराइं ण हावए ॥२३॥ व्याख्या-अगारी गृहस्थः, सम्यक्त्वश्रुतदेशविरतिरूपं सामायिकं, तस्याङ्गानि, नि:शङ्कितकालाध्ययनाणुव्रतादिरूपाणि अगारिसामायिकाङ्गानि, 'सड्डी'त्ति श्रद्धावान्
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org