SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ पञ्चममकाममरणीयाध्ययनम् तदाह मरणं पि सपुण्णाणं, जहा मेतमणुस्सुयं । सुपसन्नमणक्खायं, संजयाणं वुसीमओ ॥१८॥ व्याख्या-मरणमपि, ततो जीवितं च, सपुण्यानां 'पुण् कर्मणि शुभे' इति पुण्धातोरुणादौ पुण्यं, तद्वतां, तबुधमान्यं मयाऽनुश्रुतमवधारितं, भवद्भिरपि तत्कार्यमिति शेषः, 'सुप्पसन्नमणक्खाय'त्ति सुष्ठ प्रसन्नं मरणसमयेऽप्यकलुषं अकषायं मनो येषां ते सुप्रसन्नमनसस्तैः ख्यातं, यद्वा 'सुप्पसन्नेहिं अक्खाय'त्ति सुप्रसन्नैः पापमलापगमान्नैर्मल्यभाग्भिस्तीर्थकृद्भिराख्यातं (पाठान्तरे-'विप्पसन्नमणाघायं 'त्ति विविधैर्भावनादिभिः प्रसन्ना अनाकुलचेतसस्तत्सम्बन्धिमरणमपि विप्रसन्नं, न विद्यते आघातो यतनयाऽन्यप्राणिनां, विधिवत्संलेखनयात्मनश्च, यस्मिन् तदनाघात) संयतानां, समिति सम्यग् , यतानां चारित्रिणां । 'वुसीमओ'त्ति आर्षत्वाद्वश्यवतां, वश्य आत्मा येषां ते वश्यवन्तस्तेषाम् ॥१८॥ तथा च न इमं सव्वेसु भिक्खूसु, न इमं सव्वेसु गारिसु । णाणासीला य गारत्था, विसमसीला हि भिक्खूणो ॥१९॥ व्याख्या-इदं पण्डितमरणं न सर्वेषां भिक्षूणां परदत्तोपजीविजैनवतिनां, किन्तु केषाञ्चिद्भाग्यवद्भिक्षूणां, नेदं सर्वेषामगारिणां गृहस्थानां, चारित्रिणामेव तद्भावात् । यतोऽगारस्था नानाशीला अनेकविधव्रताः, अनेकभङ्गत्वाद्देशविरतेः, सर्वविरतिरूपत्वस्य तेष्वसम्भवात् , विषममतिगहनं शीलं येषां ते विषमशीला भिक्षवो, न हि सर्वेऽप्यनिदानिनोऽविकलचारित्रिणो वा जैनर्षयोऽपि, तीर्थान्तरीयास्तु दूरिता एव ।।१९।। सामान्यतो भिक्षुगृह्याद्यन्तरमाह संति एगेहि भिक्खूहि, गारत्था संजमुत्तरा । गारत्थेहि य सव्वेहिं, साहवो संजमुत्तरा ॥२०॥ व्याख्या-सन्ति एकेभ्यः कुतीर्थिकभिक्षुभ्यो जीवास्तिक्यादिहीनेभ्योऽविरतेभ्योऽगारस्था गृहिणः संयमेन देशविरत्यात्मकेनोत्तराः, अगारस्थेभ्यश्च सर्वेभ्योऽनुमतिवर्जसर्वोत्तमदेशविरतिप्राप्तेभ्योऽपि साधवः संयमोत्तराः, पूर्णसंयमत्वात्तेषां, अत्र श्राद्धदृष्टान्तःएक: श्राद्धः साधुं पप्रच्छ श्राद्धसाधवोः किमन्तरं ? साधुरूचे मेरुसर्षपान्तरं, तत आकुलीभूय पुनः स पप्रच्छ, कुलिङ्गिश्राद्धयोः किमन्तरं ? साधुरूचे तदेव । ततः स प्रसन्नोऽभूत् । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy