________________
९२
श्रीउत्तराध्ययनदीपिकाटीका-१ अमुमेवार्थं दृष्टान्तेनाह
जहा सागडिओ जाणं, समं हिच्चा महापहं ।
विसमं मग्गमोतिण्णो, अक्खे भग्गंमि सोयइ ॥१४॥ व्याख्या-यथा शाकटिको 'जाणं'त्ति जानन् सममुपलादिरहितं महापथं त्यक्त्वा विषमं उपलादिसङ्कुलं मार्गमवतीर्णः, गन्तमुपक्रान्तः (पाठान्तरे-'उगाढो'त्ति अवगाढः प्रविष्ट इत्यर्थः) अक्षे धुरि भग्ने शोचते, धिग्मां यज्जानन्नप्यपायमापम् ॥१४॥ अथ दृष्टान्तोपयनय:
एवं धम्मं विउक्कम्म, अहम्मं पडिवज्जिया ।
बाले मच्चुमुहं पत्ते, अक्खे भग्गो व सोयइ ॥१५॥ व्याख्या-एवमिति शाकटिकवत् धर्मं क्षान्त्यादिकं यतिधर्मं सदाचारात्मकं वा व्युत्क्रम्य विशेषेणोल्लङ्घ्य, अधर्मं हिंसादिकं प्रतिपद्य बालो मृत्युमुखं मरणगोचरं प्राप्तः, अक्षे भग्ने शाकटिक इव शोचते, इहैव भवे स्वकृतकर्मणां मारणान्तिकवेदनात्मकं फलमनुशोचति, यथा हा ! किमेतज्जानतापि मयैवमनुष्ठितम् ! ।।१५।। तथा च
तओ से मरणंतंमि, बाले संतस्सई भया ।
अकाममरणं मरई, धुत्ते वा कलिणा जिए ॥१६॥ व्याख्या-तत आतङ्कोत्पत्तौ शोचनानन्तरं, मरणमेवान्तो मरणान्तस्तस्मिन्नुपस्थिते, बालो भयान्नरकगतिभयात् सन्त्रस्यति, अकाममरणेन म्रियते, धूर्त इव द्यूतकार इव, 'वा' इवार्थे, यया धूर्तः कलिना एकेन प्रक्रमाद्दायेन जितः स्वं शोचते तथासावपि तुच्छभोगैर्हारितदिव्यसुखः शोचन् म्रियते ॥१६॥ अथ निगमयति
एयं अकाममरणं, बालाणं तु पवेइयं ।
इत्तो सकाममरणं, पंडियाणं सुणेहि मे ॥१७॥ व्याख्या-तुः एवार्थे, एतद् दुःकृतकर्मणां परलोकाद्विभ्यतां यन्मरणमुक्तं तदकाममरणं बालानामेव प्रवेदितं तीर्थकृद्भिः, इतः सकाममरणं पण्डितानां सम्बन्धि श्रृणुत 'मे' वदत इति ॥१७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org