________________
पञ्चममकाममरणीयाध्ययनम्
९१
गुण्ठितोऽन्तश्च तामेव मृत्तिकामत्ति, ततोऽर्ककरैः शुष्यन् क्लिश्यति विनश्यति च, तथायमप्युग्रकर्मा दुर्गतौ गच्छति ॥१०॥
यथा
तओ पुट्ठो आयंकेण, गिलाणो परितप्पड़ । पभीओ परलोयस, कम्माणुप्पेहि अप्पणो ॥ ११ ॥
व्याख्या–तकस्ततो वाऽष्टकर्ममलतः स्पृष्टः, आतङ्केन आशुघातिशूलविसूचिकादि
,
रोगेण, तत्तदुःखोदयात्मकेन वा ग्लान इव परीति सर्वप्रकारं तप्यते खिद्यते, प्रकर्षेण भीतः, कस्मात् ? सुब्व्यत्ययात् परलोकात् कीदृक् सन् ? कर्माणि अनुप्रेक्षते इत्येवंशीलः कर्मानुप्रेक्षी, आत्मनः कोऽर्थः ? स हि हिंसाऽलीकभाषणादिकामात्मचेष्टां चिन्तयन् न किञ्चिन्मया शुभं कृतं, किन्तु सदैवाजरामरवच्चेष्टितं इति विषयाकुलचेतसोऽपि प्रायः प्राणत्यागसमयेऽनुतापः स्यात् ॥११॥
"
कथं
सुया मे नरए ठाणा, असीलाणं च जा गई । बालाणं कूरकम्माणं, पगाढा जत्थ वेयणा ॥ १२ ॥
व्याख्या--: - श्रुतानि 'मे' मया नरके स्थानानि सीमन्तकाऽप्रतिष्ठानादीनि कुम्भीवैतरण्यादीनि वा, अथवा स्थानानि सागरोपमादिस्थित्यात्मकानि अशीलानामसदाचाराणां या गतिर्नरकात्मिका सा श्रुता, कीदृशानां ? बालानामज्ञानां क्रूरकर्मणां यत्र त प्रगाढा वेदनाः शीतोष्णशाल्मल्याश्लेषणाद्याः सन्ति, अतो ममाप्येवंविधस्यानुष्ठानस्येदृश्येव गतिरिति ॥१२॥
तथा—
तत्थोववाइयं ठाणं, जहा मेयमणुस्सुयं ।
अहाकम्मेहिं गच्छंतो, सो पच्छा परितप्पइ ॥१३॥
व्याख्या - तत्रेति नरकेषु, उपपाते भवमौपपातिकं स्थानं यथा स्यात्, 'मे' मया तदनुश्रुतमवधारितं गुरुभिरुच्यमानं, अयं भावः - औपपातिकत्वान्नारकाणामन्तमुहूर्त्तादेव छेदनादिवेदनाः स्युस्ततो गर्भजत्वं वरं यतस्तत्र छेदादि कालान्तरे स्यादिति । तत 'अहा' यथाकृतकर्मभिर्गच्छन् नरकादिकं तदनुरूपं स्थानं, स बालः पश्चादायुषि हीयमाने परितप्यते, धिग्मां पापकारिणं किमिदानीमपुण्यः करोमीत्यादि शोचते ॥१३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org