________________
पञ्चममकाममरणीयाध्ययनम् स्पर्शो रसो गन्धश्च, एष कामभोगयोर्भेदः, तेषु गृद्धः, यद्वा कामेषु स्त्रीसङ्गेषु, भोगेषु धूपनविलेपनादिषु, एकस्तन्मध्यात्कश्चित् क्रूरकर्मा कूटमिव कूटं, प्राणिनां यातनाहेतुत्वान्नरको मृगया वा, यद्वा द्रव्यतः कूटं मृगादिबन्धनं, भावतस्तु मृषाभाषादि, तस्मै गच्छति प्रवर्त्तते, स हि मांसादिलोलुपतया द्रव्यभावकूटानि सेवते । प्रेरितश्च कैश्चिद्वक्ति, न मया दृष्टः परलोको भूतभाविजन्मात्मकः, चक्षुदृष्टा प्रत्यक्षा इयं रतिः कामसेवोत्था चित्तप्रसन्नता वर्त्तते ॥५॥
तदाशयं व्यञ्जयितुमाहहत्थागया इमे कामा, कालिया जे अणागया ।
को जाणइ परे लोए, अत्थि वा नत्थि वा पुणो ॥६॥ व्याख्या-हस्तगता इव स्वाधीनतया इमे प्रत्यक्षोपलभ्याः कामाः शब्दादयः सन्ति, तथा काले सम्भवन्तीति कालिकाः अनिश्चितकालान्तरप्राप्तयो येऽनागता भाविजन्मसम्बन्धिनः सन्ति, यतः कः पुनर्जानाति ? नैव कश्चित् , यत्परलोकोऽस्ति वा नास्ति वेति। परलोकस्य सुकृतादिकर्मणां चास्तित्वनिश्चयेऽपि को हस्तागतान् कामांस्त्यक्त्वा कालिककामार्थं यतते ? ॥६॥ कोऽपि जानन्नपि कामांस्त्यक्तुमक्षम इत्याह
जणेण सद्ध होक्खामि, इइ बाले पगब्भइ ।
कामभोगाणुरागेणं, केसं संपडिवज्जइ ॥७॥ व्याख्या-जनेन लोकेन सार्द्ध भविष्यामि, बहुर्जनो भोगासङ्गी तदहमपि तद्गति यास्यामि, यद्वा 'होक्खामि' भोक्ष्यामि पालयिष्यामीति । यथा स्वयं जनः कलत्रादिकं पालयति, तथाहमपि, न हि इयान् जनसमूहोऽज्ञ इति । बालोऽज्ञ इति प्रगल्भते धार्यमवलम्बते, अलीकवाचालतया स्वयं नष्टः परान्नाशयति । कामभोगानां पूर्वोक्तानामनुरागेण क्लेशं इह परत्र च बाधां सम्प्रतिपद्यते प्राप्नोति ॥७॥ क्लेशाप्तेर्युक्तिमाह
तओ से दंडं समारभइ, तसेसु थावरेसु य ।
अट्ठाए य अणट्टाए भूयगामं विहिंसई ॥८॥ व्याख्या-ततः कामभोगानुरागात् स धाष्र्यवान् दण्डं मनोदण्डादिकं समारभते, केषु ? त्रसेषु स्थावरेषु च जीवेषु, अर्थाय वित्ताप्त्यादिकार्याय, चस्य भिन्नस्थान
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org