________________
८८
यथा
संतिमेए दुवे ठाणे, अक्खाया मारणंतिया । अकाममरणं चेव, सकाममरणं तहा ॥२॥
व्याख्या–'संति' इति प्राकृतत्वात् स्तो विद्येते, एते मः अलाक्षणिकः, द्वे, तिष्ठन्त्यनयोर्जन्तव इति स्थाने, आख्याते पूर्वार्हद्भिः, मरणमेवान्तो निजनिजायुः पर्यन्तस्तस्मिन् भवे मारणान्तिके, एकं अकाममरणं, चः समुच्चये, एव पूरणे, तथा द्वितीयं सकाममरणम् ॥२॥
केषामिदं कियद्वारमित्याह
बालाणं अकामं तु, मरणं असयं भवे ।
पंडियाणं सकामं तु, उक्कोसेण सयं भवे ॥३॥
व्याख्या–बाला इव बालाः सदसद्विवेकमूर्खा:, तेषां तुशब्दस्यैवकारार्थत्वात्, मरणमकाममेवाऽसकृद्वारंवारं भवेत्, ते हि विषयगतो मरणनिच्छन्त एव म्रियन्ते तेन च भवेऽटन्ति, पण्डितानां चारित्रवतां, सह कामेनाऽभिलाषेण वर्त्तते इति सकामं, अनिषिद्धमनुमतमिति युक्तितो मरणं प्रत्यऽत्रस्ततयाऽाराधनोत्सव भूतत्वाच्च, तस्य तादृशं, तुर्विशेषे, उत्कर्षेण केवलिनां सकृदेकवारमेव भवेत्, जघन्येन तु शेषचारित्रिणः
सप्ताष्टवान् भवेत् ॥३॥
आद्यं स्थानमाह
श्रीउत्तराध्ययनदीपिकाटीका - १
तत्थिमं पढमं ठाणं, महावीरेण देसियं ।
कामगिद्धे जहा बाले, भिसं कूराइं कुव्वइ ॥४॥
व्याख्या-तत्राऽकामसकाममरणयोर्मध्ये प्रथमं स्थानं अकाममरणरूपं महावीरेण देशितं प्ररूपितं, आद्यगाथायां ‘तत्थ एगे महापन्ने' इति मुकुलितोक्तावपि व्यक्त्यर्थमेतत्, कामेषु इच्छामदनात्मकेषु गृद्धोऽभिकाङ्क्षन् कामगृद्धः, यथा बालो मूर्खो भृशं क्रूराणि हिंसादिकर्माणि करोति अशक्तावपि मनसापि कृत्वाऽकाम एव म्रियते, तण्डुलमत्स्यवत् ॥४॥
एतदेव स्पष्टयति
जे गिद्धे कामभोगेसु, एगे कूडाय गच्छइ ।
न मे दिट्ठे परे लोए, चक्खुदिट्ठा इमा रइ ॥५॥
व्याख्या - यः कश्चित् काम्यते इति कामः शब्दो रूपं च भुञ्ज्यन्ते इति भोगाः
Jain Education International 2010_02
,
For Private & Personal Use Only
www.jainelibrary.org