________________
८७
पञ्चममकाममरणीयाध्ययनम्
धीरेण वि मरियव्वं, काउरिसेण वि अवस्स मरियव्वं । तम्हा अवस्समरणे, वरं खु धीरत्तणे मरिओ ॥१॥ [म.प./गा.३२१] संसाररंगमज्झे, धीबलसन्नद्धबद्धकच्छाओ।
हंतूण मोहमलं, हरामि आराहणपडागं ॥२॥ [म.प./गा.३१०] तथाहि भक्तपरिज्ञामरणमार्यिकादीनामुक्तमस्ति, यतः
सव्वावि य अज्जाओ, सव्वे वि य पढमसंघयणवज्जा ।
सव्वेवि देसविरया, पच्चक्खाणेण उ मरेंति ॥१॥ [म.प./गा.५४१] अत्र प्रत्याख्यानं भक्तपरिज्ञा, तत्रेङ्गिनी द्वितीयादिसंहननेऽपि पुंसां स्यात् , पादपोपगमं त्वाद्यसंहनने एव ।
पढमंमि य संघयणे, वते सेलकुड्डसामाणे ।
तेसिं पि य वोच्छेओ, चउदसपुव्वीण वोच्छेए ॥१॥ [म.प./गा.५३३] पादपोपगमे देव उत्पाट्य क्वापि विषमे स्थाने क्षिपेत् , परं चरमदेह: पीडां नाप्नुते । देवलोके कोऽपि संहरेत् तत्रानुकूलविषयेष्वपि स न क्षुभ्यति, इति महासामर्थ्य, सर्वार्हतामेतदेव मरणं स्यात् । तथा
भावियजिणवयणाणं, ममत्तरहियाण नत्थि ह विसेसा ।
अप्पाणंमि परंमि य, तो वज्जे पीडमुभये वि ॥१॥ [पञ्च.व./गा.५३९] इत्यागमः, तेन गृध्रस्पृष्ट-वैहायसमरणे आत्मपीडाकारकारणे एवानुज्ञाते स्वधर्मबाधायां, उदायिनृपानुमृतगुरुवत् , नान्यथा । एवं मरणानि ज्ञात्वा पण्डितमरणेन मर्यं, आदावत्राऽकाममृतेरुक्तत्वादकाममरणं नामास्याध्ययनस्य । यथा
अण्णवंसि महोहंसि, एगे तिन्ने दुरुत्तरं ।
तत्थ एगे महापण्णे, इमं पन्हमुदाहरे ॥१॥ व्याख्या-अर्णवे भावतः समुद्रे संसारे, महानोघो भावतो भवपरम्परा यस्मिन् , सुब्ब्यत्ययात् , अर्णवान्महौघात् , दुःखेन तरीतुं शक्याद् दुरुत्तरात् , एको रागाद्यसहायो गौतमादिर्यद्वा एको जिनमतप्रतिपन्नो, न तु चरकादिमताक्षिप्तस्तीर्ण इव तीर्णः, आसन्नसिद्धित्वेनाभूत् , तत्र सदेवमनुजायां पर्षदि गौतमादौ तरणप्रवृते एकस्तीर्थकरः, तत्कालेऽत्रैकस्यैव तीर्थकृतो भावात् , महती प्रज्ञा केवलात्मिका संविद्यस्य स महाप्राज्ञः, इमं संसारतरणोपायं प्रश्नमुपदेशं भव्यजनप्रष्टव्यरूपमुदाहृतवान् । श्रीवीरो गौतमादिभ्य आख्यातवानिति भावः ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org