SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनदीपिकाटीका-१ छद्मस्थमरणकेवलिमरणे तु मनःपर्यायज्ञानिनोऽवधिज्ञानिनश्च श्रुतज्ञानिनो मतिज्ञानिनश्च म्रियन्ते ये श्रमणाश्छद्मस्थास्तेषां मरणं छद्मस्थमरणम् ॥११॥ केवलिन उत्पन्नकेवलाः सर्वकर्माणुक्षये म्रियन्ते तत् केवलिमरणं ॥१२॥ ऊर्ध्वं द्रुशाखादौ स्वमुद्बद्धय, ऊर्ध्वं गिरिशृङ्गादेर्वा, भृगुपातात् कूपपाताद्वा शस्त्रादिना स्वयं म्रियमाणस्य विहायसि भवत्वाद्वैहायसमरणम् ॥१३।। __ गृध्रशकुनिकाशिवाऽह्यादिभिर्भक्षणं, गम्यत्वात् स्वस्य तदवारणादिना, तद्भक्ष्यकरिकरभादिशरीरानुप्रवेशेन च गृद्धादिभिर्भक्षणं यस्मिंस्तद् भृगृद्धस्पृष्टम् ॥१४|| अन्त्यत्रयं तु भक्तं भोजनं, तस्य परिज्ञा, ज्ञपरिज्ञया नैकभेदमस्माभिर्मुक्तपूर्वमेतद्धेतुकं चाऽवद्यमिति परिज्ञानं, प्रत्याख्यानपरिज्ञया च त्यागः, सव्वं [च] असणपाणं, चउब्विहं जा य बाहिरा उवही । अब्भितरं च उवहिं, जावज्जीवं च वोसिरे ॥१॥ [म.प./गा.२३४ ] इत्यागमवचनाच्चतुर्विधाहारस्य त्रिविधाहारस्य वा यावज्जीवं प्रत्याख्यानं भक्तपरिज्ञामरणम् ।।१५।। इङ्ग्यते प्रतिनियतप्रदेश एव वेद्यतेऽस्यामनशनादिक्रियायामितीङ्गिनी, तया च मरणमिङ्गिनीमरणम् ॥१६॥ पादपो वृक्षः, उपशब्दश्च सादृश्ये, ततश्च पादपमुपगच्छति सादृश्येन प्राप्नोतीति पादपोपगमनं, कोऽर्थो ? यथा पादपः पतितः सममसममित्यचिन्तयन्निश्चलमास्ते, परप्रयोगात्तु कम्पते, तथाऽयमपि भगवान् यथा समविषमदेशेष्वङ्गमुपाङ्गं वा प्रथमतः पतितं न चालयति ॥१७॥ एतत्पादपोपगमं मरणं सर्वोत्कृष्टं, अर्हदाद्यैरुत्तमैराचरितं एतत्त्रयं क्रमेण कनिष्ठमध्यमज्येष्ठसञ्जयोच्यते, विशिष्टविशिष्टतरविशिष्टतमधृतिमतामेव तत्प्राप्तिरिति कनिष्ठत्वादिस्तद्विशेष उक्तः, फलं वैमानिकतामुक्तिलक्षणं त्रयस्यापि ।। एयं पच्चक्खाणं, अणुपालेऊण सुविहिओ सम्म । वेमाणिओ व देवो, हविज्ज अहवा वि सिज्झिज्जा ॥१॥ [म.प./गा.३२२] अवधिमरणादीनि षोडश मरणानि सादीनि सपर्यवसितानि स्युः, एकसामायिकतायास्तेषामुक्तत्वात् । प्रवाहापेक्षया तु शेषभङ्गत्रयेऽपि सन्ति । आद्यं त्वनादि स्यात् , प्रतिनियतायुः पुद्लापेक्षया तु साद्यपि स्यात् । अपर्यवसितं अभव्यानां, भव्यानां तु सपर्यवसितम् । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy