________________
८५
पञ्चममकाममरणीयाध्ययनम् तत्प्राधान्यापेक्षया क्षेत्रावीचिमरणमपि चतुर्धा । कालो यथायुष्कालो गृह्यते, तत्वद्धाकालः, तस्य देवादिष्वभावात् , स च देवायुष्ककालादिभेदाच्चतुर्धा, तत्प्राधान्यापेक्षया कालावीचिमरणमपि चतुर्धा, नरकादिचतुर्विधभावापेक्षया भवावीचिमरणमपि चतुर्धा, नारकाद्यायु:क्षयलक्षणभावं प्राधान्येनापेक्ष्य भावावीचिमरणमपि चतुर्धा वाच्यं ।।
तथा अवधिर्मर्यादा, ततश्च यानि नरकादिभवनिबन्धनतयायु:कर्मदलिकान्यनुभूय सम्प्रति म्रियते, यदि पुनस्तान्येवानुभूय मरिष्यति तदा तद् द्रव्यावधिमरणं । आवीचिमरणवद् द्रव्यादिभेदैः पञ्चधा । सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां पुनर्ग्रहणं, परिणामवैचित्र्यादेवं क्षेत्रादिष्वपि भाव्यम् ॥२॥
अवधिमरणवदात्यन्तिकमरणमपि द्रव्यादिभेदतः पञ्चधा, विशेषस्त्वयं-यानि नरकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते, मृतो वा न पुनस्तान्यनुभूय मरिष्यति, एवं क्षेत्रादिष्वपि वाच्यम् ॥३॥
त्रीण्यमून्यावीचिअवध्यात्यन्तिकमरणानि प्रत्येकं पञ्चानां द्रव्यादीनां नरकादिगतिभेदेन चतुर्विधत्वाद्विंशतिभेदानि स्युः ॥
वलवन्मरणं तु संयमखिन्ना दुश्चरतपः कर्तुमक्षमाः, व्रतं मोक्तुं चाऽनिच्छवः, कथं वयमस्मात् कष्टाच्छुटाम इति ध्यात्वा ये म्रियन्ते, तद्वलतां संयमान्निवर्तमानानां मरणं वलवन्मरणम् ॥४॥
वशार्तं तु इन्द्रियविषयवशगतानां भयादिवशगतानां वा स्निग्धदीपकलिकाऽवलोकाकुलितपतङ्गवन्मरणम् ॥५।। अन्तःशल्यमरणं, लज्जेन्द्रियसुखमदादिना गुर्वग्रे दोषाऽकथनेन,
एयं ससल्लमरणं, मरिऊण महब्भए दुरंतंमि ।
सुचिरं भमंति जीवा, दीहे संसारकान्तारे ॥१॥ [उ.नि./गा.२२०] ॥६॥ तद्भवमरणं मुक्त्वा असङ्ख्यायुर्नुतिर्यग्देवनैरयिकान् असङ्ख्यायुषां तद्भवमरणं, तेषां केषामपि नृतिर्यश्वुत्पत्तेः, तद्धि यस्मिन् भवे वर्तते जन्तुस्तद्भवयोग्यमेवायुर्बद्ध्वा पुनस्तत्क्षयेण म्रियमाणस्य स्यात् ।।७।।
बालपण्डितमिश्रमरणानि तु यथा-मृतिसमयेऽपि देशविरतिमप्यप्रतिपद्यमानानां मिथ्यादृशां सम्यग्दृशां वा मरणं विषविषकन्यादिभिर्वाऽविरतार्तस्य मरणं बालमरणम् ॥८॥
विरतानां सर्वसावद्यनिवृत्तिमभ्युपगतानां मरणं पण्डितमरणम् ।।९।। बालपण्डितमरणं मिश्रमरणं, देशविरतानाम् ॥१०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org