________________
८२
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-क्षिप्रं तत्क्षणे एव न शक्नोति न क्षमः स्यात् , द्रव्यतो बहिःसङ्गत्यागरूपं, भावतः कषायत्यागरूपं विवेकमेतुं गन्तुम् ,
अत्र ब्राह्मणीदृष्टान्तः-यथैको द्विजोऽन्यदेशं गत्वा सर्वविद्यापारङ्गामीभूय स्वदेशमेतः, द्विजेनैकेन च स सरूपां कन्यामुद्वाहितः, स लोके वेदेष्वधीतीति भूरिदक्षिणा लेभे, जातश्च श्रीमान् , पत्नी च तेन बहुस्वर्णालङ्कृतिभिरलङ्कारि, सापि नित्यं मण्डितैवास्थात् , भोंक्तं प्रियऽस्मद्वासः प्रत्यन्तग्रामेऽस्ति, अतः पर्वादिषु भूषाः परिधीयन्ते, न सदा, स्तेनादिभयात् । सोचे जात ! यदा चौरा एष्यन्ति तदाहं शीघ्रमेव भूषा उत्तारयिष्ये । अथान्यदा स्ते ना आयाता नित्यमण्डिताया गृहं च प्रविष्टाः, सा तैः सालङ्कारा गृहीता । प्रणीताहारत्वान्मांसलाङ्गा उत्तारणाऽनभ्यासाच्च सा भूषा उत्तारयितुं नाऽशकत् । तदा चौरास्तद्धस्तादि छित्वाऽलङ्कारांश्चादाय स्वस्थानेऽगुः ।
___एवमन्योऽपि प्रागकृतपरिकर्मो न तत्काल एव विवेकमेतुं शक्नोति, यत एवं तस्मात् समुत्थाय सम्यक् प्रवृत्त्योत्थाय, पश्चात् छन्दं निरोत्स्याम इत्यालस्यत्यागेनोद्यमं कृत्वा, प्रहाय त्यक्त्वा कामान् , समेत्य सम्यग् ज्ञात्वा, लोकं प्राणिवर्ग, समतया समशत्रुमित्रतया महर्षिः सन् , मह एकान्तोत्सवरूपत्वान्मोक्षस्तमिच्छतीत्येवंशीलो महैषी वा, स निर्निदानः सन्नात्मानं रक्षत्यपायेभ्यो दुर्गत्यादिभ्य इत्येवंशील आत्मानुरक्षी, यद्वाऽादीयते स्वीक्रियते आत्महितमनेनेत्यादानः संयमस्तद्रक्षी आदानरक्षी, एवंविधस्त्वं हे साधो अप्रमत्तश्चर । इह प्रमादत्यागाऽत्यागयोरैहिकदृष्टान्तः -
कापि वणिक्स्त्री प्रस्थितपतिका केवलं स्वदेहभूषापरा कर्मकरान्निजनिकर्मसु न नियुक्तं, न तेषामशनादिसारां कुरुते, सर्वे कर्मकरा नष्टास्तदभावाच्च धनहानिर्जाता । समेतेन वणिजा गृहमजनं दृष्ट्वा विज्ञाय च तत्कारणं सा गृहान्निष्कासिता । अन्या निःस्वकन्या धनैर्वृता, तत्स्वजनाश्च तेनोक्ता यद्येषा स्वं रक्षति तदा तामुदहे, तद् ज्ञात्वा सा प्रज्ञोचे रक्षिष्यामि स्वं । तेनोढा, ततः सोऽगाद्वाणिज्ये, अथ सा सदा कर्मकरादीनां प्रातरशनं दत्वा पूर्वाह्नकाले भोजनं दत्ते, स्निग्धवाचा च जल्पन्ती सन्ध्याया अर्वागेव तेषां ग्रासं दत्ते, मासिकद्रव्यमपि पूर्णावधौ तेभ्यो नियमितं ददाति, न केवलं स्वशुश्रूषापरैवाभूत् । इतो भर्तेतस्तां योग्यां च दृष्ट्वा सर्वस्वस्वामिनी चकार । एवमिहैव गुणायाऽप्रमादो दोषाय प्रमादश्च, आस्तामन्यजन्मनि ॥१०॥ प्रमादमूलं रागद्वेषाविति सोपायं तत्त्यागमाह
मुहं मुहं मोहगुणे जयंतं, अणेगरूवा समणं चरंतं । फासा फुसंती असमंजसं च, न तेसि भिक्खू मणसा पउस्से ॥११॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org