________________
८०
श्रीउत्तराध्ययनदीपिकाटीका-१ __ अथ मूल आसन्नग्रामं गत्वा भिक्षायां च कुल्माषानादाय वलितः साधुमेक मासक्षपणपारणके ग्रामाभिमुखं व्रजन्तं महाभक्त्या तैः कुल्माषैः प्रतिलाभ्योचे
धन्नाणं खु नराणं, कुम्मासा हुन्ति साहुपारएण । [ उ.४।७बृ.वृ.पू.] इत्युक्ते सुर्यासन्नस्थयोचे सः, पश्चार्द्धन याचस्व ? त्वां ददे, तदा सोऽवक्
गणियं च देवदत्तं, दन्तिसहस्सं च रज्जं च ॥१॥ [उ.४७बृ.वृ.प.] सुर्योक्तं तत्ते शीघ्र भावि । अथेतोऽसौ बेन्नातटे गतस्तत्र च राजाऽपुत्रः पञ्चत्वं प्रयातोऽभूत् । मन्त्रिशृङ्गारितहस्तिन्याभिषिक्तो मूलदेवस्तत्र राजाभूत् । ततोऽवन्तीशेन सह दानाद्यैः प्रीतिं कृत्वा तेन देवदत्तामानाय्य स्वान्तःपुरे क्षिप्ता । अन्यदाऽचलः पोतयुतो व्यापारार्थं तत्रागतः शुल्कचौर्यतो राजनरैधृत्वा मूलदेवाग्रे समानीतः, मूलदेवस्तमुपलक्ष्य स्वं च प्रज्ञाप्य पूर्ववचनेन सत्कृत्य विससर्ज ।
अथ तत्र बेन्नातटे मण्डिकाभिधश्चौरोऽह्नि गडुमिषेण लेपलिप्तजानुकृतपट्टबन्धो दण्डधरः पुरे शनैः शनैश्चलति, रात्रौ च क्षात्रैर्द्रव्यं लात्वा पुरासन्नोद्याने भूमिगृहे निक्षिपति । तत्र तत्स्वसा कन्यास्ति, कूपश्चाप्येकोऽस्ति । यश्च निशि लोभात्तस्य लोप्त्रमुत्पाट्य तत्र याति, तं तत्स्वसा पादशौचमिषेण कूपे पातयति । दुःखीभूता लोका मूलदेवाय चौरोपद्रवं कथयामासुः, राज्ञारक्षक उक्तस्तदा तेनोक्तं स्वामिन्नयं चौरो मया निग्रहितुं न शक्यते । तदा निशि राजा नीलाम्बरः स्वयमेकाकी बहिर्जीर्णदेवकुलस्थश्चौरेणेत्योक्तः कस्त्वं ? राज्ञोचे कार्पटिकोऽहं, चौरेणोक्तमेहि त्वां धनिनं कुर्वे । ततस्तेन राट्र सार्थे नीतः, ततोऽसौ क्षात्रं दत्वा धनवद्गृहाद् बहु स्वं लात्वा नृपशीर्षे ददौ, पुरो भूगृहान्तर्गत्वा चौरः स्वसारमूचेऽस्यांहिशौचं कुरु ? तया तदंहिशौचकरणानन्तरं तत्पादकोमलस्पर्शतो मोहितया सङ्केतितोऽसौ नष्टस्तदा चौरः पृष्टौ सखड्गोऽधावत् । अथ मूलदेवो मार्गे शिवलिङ्गं निजोत्तरीयेनाच्छाद्य वृक्षान्तरे लीनः, घोरतमसि चौरस्तदुत्तरीयाच्छादितं शिवलिङ्गं तमेव कार्पटिकं मन्यमानः कोपेन कङ्कपत्रतो द्विधा कृतवान् । ततोऽसौ द्रुतं भूगृहान्तर्गतः, प्रातर्नृपेण स आहूय सन्मान्य च तत्स्वसाऽयाचि । तेनापि दत्ता, अथ क्रमेण राज्ञावर्जनपूर्वकं तस्मात् सर्वस्वं गृहीत्वा पौरभ्यस्तेषां लेखानुसारेण समर्पितं, ततश्च तेन लोकसाक्षिकं स मण्डिकचौरः शूलायां प्रोतः, एवं साधुः काले देहं त्यजेत् ।
एतन्न स्वातन्त्र्येणेत्याहछंदं निरोहेण उवेइ मोक्खं, आसे जहा सिक्खियवम्मधारी । पुव्वाइं वासाइं चरप्पमत्तो, तम्हा मुणी खिप्पमुवेइ मुक्खं ॥८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org