________________
चतुर्थं प्रमादऽप्रमादाख्यध्ययनम्
७९
व्याख्या-चरेत् संयमाध्वनि पदानि पदन्यासान् क्रियाप्रकारान् यद्वा पदानि धर्मकृत्यानि मूलगुणादीनि, परिशङ्कमानः संयमदोषान् गणयन्, अत्र मे मूलगुणस्खलना भविष्यतीति भावयन्, यत्किंचिदल्पमपि गृहिसंस्तवादि दुश्चिन्तितादिप्रमादपदं संयमे स्वातन्त्र्यहानिमूलगुणादिमालिन्यकृत्त्वाद्बन्धहेतुत्वेन पाशमिव मन्यमानः, यथा भारण्डः पदानि शङ्कमानश्चरति, यत्किंचिद्दवरकाद्यपि पाशं मन्यते । ननु चेच्छङ्कमानश्चरेत्ततोऽनशनमेव लात्वित्याह- लाभान्तरे लाभविशेषे सति यावद्विशिष्टविशिष्टतरज्ञानदर्शनचारित्राद्याप्तिः स्यात्तावदिदं जीवितमन्नपानाद्यैर्बृहयित्वेव वृद्धिं नीत्वेव पश्चाल्लाभादनु परिज्ञाय सर्वप्रकारैर्ज्ञात्वा, यथेदं तदानीं प्राग्वन्ननिर्जराकरमिति, ज्ञपरिज्ञातः प्रत्याख्यानपरिज्ञया भक्तं प्रत्याख्याय सर्वथा जीवितनिरपेक्षो, मलोऽष्टप्रकारं कर्म, तदपध्वंसते, इत्येवं शीलो मलापध्वंसी स्यात्, यद्वा जीवितं बृंहयित्वा लाभान्तरे लाभच्छेदेन्तर्बहिश्च मलाश्रयान्, मलमौदारिकशीरं, तदपध्वंसी स्याज्जीवितं त्यजेदिति । इह लाभं यावद्देहो रक्ष्यः, यथा मूलदेवनृपेण धनलाभ यावन्मण्डिकचौरो रक्षितः, पश्चाद्धतः, एवं पश्चादनशनं ग्राह्यं । कथैवं
अवन्त्यां श्रेष्ठा देवदत्ता वेश्या, तस्यामचलो धनी, मूलदेवो द्यूती चाधनश्चासक्तौ । तस्या मूलदेव इष्टः, गणिकाऽक्कायास्त्वचलः, सोचे पुत्रि ! किमनेन द्युतिना ? तयोक्तं मूलदेवो दक्षः, तयोक्तं किमेषोऽस्मादधिकं ज्ञानं वेत्ति ? अचलोऽपि सर्वकलाज्ञः, तया दास्युक्ता । व्रजाचलं कथय च देवदत्तेक्षून् भोक्तुमिच्छति । तयोक्तोऽचलो दुर्लभानपीक्षून् शकटभृतान् प्रेषितवान् । वेश्ययोक्तं किमहं हस्तिनी ? मूलदेवो दास्याऽज्ञापि, तेनेक्षुभागा निस्त्वचीकृताः कर्पूरादिवासिताः प्रहिताः, तयोक्तं मातः पश्य दाक्ष्यं ? सा मौनेऽस्थात्, मूलदेवे च द्वेषं गता । अथैकदाऽक्कया प्रेरितेनाचलेन देवदत्तायै प्रोक्तमहमद्य ग्रामान्तरं गच्छामीत्युक्त्वा स निजगृहे गुप्तस्तस्थौ । तदा निःशङ्कया देवदत्तया मूलदेवो निजनिकेतने आकारि । तदैवाऽक्कासङ्केतितोऽचलोऽपि तत्रागात् । तदा देवदत्तया मूलदेवो मञ्चाधो गुप्तीकृतो ज्ञातश्चाऽक्कोक्तितोऽचलेन । देवदत्तोक्ता दास्योऽचलार्थं स्नानसामग्रीं लात्वा तत्र स्थिताः, अचलेनोक्तमद्य मया शय्योपरि स्नानकरणलब्धस्वप्नः सफलीकार्योऽस्ति, विनश्यत्वियं शय्या, इतोऽपि भव्यामपरां शय्यामहं तेऽर्पयिष्यामीत्युक्त्वा स शय्योपरि स्नानं कृतवान् । ततो जलार्द्रोऽचलेन मूलदेवः केशेष्वाकृष्योक्तो व्रज ? जीवन्मुक्तोऽसि त्वमप्येवं मां मुञ्चे:, मूलदेवो लज्जया निर्गत्य निःसबलो बेन्नातटं प्रति चलितः, पथ्येको द्विजो मिलितः, मध्याह्ने कुक्षिम्भरेण द्विजेन शम्बलं भक्षितं, मूलदेवाय किञ्चिदपि न दत्तं । एवं दिनत्रयं यावत्तेन निस्तृपेन क्षुत्क्षामायापि मूलदेवाय न किञ्चिद्दत्तं चतुर्थेऽह्नि स द्विजः पृथग्भूते निजग्राममार्गे चलितः, तदा ताभ्यां परस्परं नामग्रामादि पृष्टम् ।
Jain Education International 2010_02
,
For Private & Personal Use Only
www.jainelibrary.org