________________
७८
श्रीउत्तराध्ययनदीपिकाटीका-१ अगडं च तत्र रक्षकं मुक्त्वा स देवकुलात् सुप्तान् दरिद्रनृन् लात्वागतः, तैः पेटा उत्पाट्य तौ पुराबहिर्गतौ । स उवाच वत्स क्षणमत्र निद्राहि ? यावद्रात्रिर्याति, ततः स्थानं यास्यावः, अगडः क्षणं कूटेन सुप्त्वा क्षणादेवोत्थाय वृक्षान्तरेऽस्थात् । निद्रिता भारवाहिकाः परिव्राजोत्थाय सर्वे हताः, ततोऽसावगडं श्रस्तरे नाऽपश्यत् , इतोऽगडस्तत्सम्मुखमागत्य तं हृदये हत्वाऽपातयत् । तेन स्वस्य निश्चितां मृतिं ज्ञात्वोचे, वत्सेमं ममासि लाहि ? व्रज च स्मशानासन्नदेवीगृहे, तत्र गत्वा शब्दं कुर्याः, भूगृहे मम स्वसास्ति, तस्यै चायमसिदWः, सा च त्वद्भार्या, त्वं च द्रव्येशो भूयाः, इत्युक्त्वा स मृतः, अगडस्तत्र गत्वा तथाकरोत् , सायाता देवीव, भ्रातुरसिं दृष्ट्वा मृतिं च ज्ञात्वा कूटमैत्र्या सम्भ्रमा भूगृहं प्रविश्यासनं मुमोच, स तत्रोपविष्टस्तच्चर्यां पश्यन् सशङ्कोऽस्थात् । सा शय्यां प्रस्तार्योचे स्वामिन्निह सुखनिद्रां कुरु ? स तत्र सुप्त्वा तस्यामन्यचित्तायामुत्थायान्मयत्र छन्नं स्थितः, इतस्तया शय्योर्ध्वं पूर्वसज्जिता शिलाऽपाति, शय्याऽचूरि, हृष्टोचे हतो मया भ्रातृघातीति । अगडस्तां केशेष्वाकृष्योचे दासि ! को मां हन्तीति ? ततः सा तदंहोः पतित्वोवाचाहं त्वच्छरणास्मि, तेन मुक्ता, प्रातस्तां विश्वास्यादाय स गतो नृपं, राज्ञा सोऽचि धनादिभिः, पुरदेशजनैरपि पूजितः स भोगभागभूत् । एवमन्योऽप्यप्रमत्त इहैव कल्याणभाक् स्यात् ।
भावसुप्तेषु मिथ्यात्वादिमोहितेष्वपि जनेषु यतिः सम्यग्ज्ञानेन प्रतिबोधपूर्वमेव संयमजीवितं धारयतीति प्रतिबुद्धजीवी न विश्वस्तः स्यात् , प्रमादेषु बहुजनप्रवृत्तिदर्शनान्नैतेऽनर्थकारिण इति न विश्वस्तः स्यात् पण्डितः, आशु शीघ्रं सुकृतेषु यतनीयमिति प्रज्ञा बुद्धिर्यस्य स आशुप्रज्ञः, यतो जीवं घूर्णयन्तीति घोरा निर्दयाः, शश्वन्मृतिदत्वान्मुहर्ताः कालभेदाः, घोरा अप्यमी देहबलात् कदाचिन्न प्रभविष्यन्तीत्याह-अबलं, न मृत्युदायिमुहूर्तान् प्रति शक्तिवच्छरीरं, ततो भारण्डपक्षीवाऽप्रमत्तश्चर । यथा सोऽप्रमत्तश्चरति तथा त्वमपि प्रमादरहितश्चर ।
अहो वैचित्र्यमेषां यत् , त्रिपादा मर्त्यभाषिणः ।
द्विजीवा द्विमुखाश्चैको-दरा भिन्नफलैषिणः ॥१॥ भारण्डपक्षिणः पक्षद्वयभिन्नदेहैकचरणस्य पक्षान्तरेण सहान्तर्वतिसाधारणचरणत्वात् स्वल्पमपीच्छाभेदेन प्रमाद्यतोऽवश्यं मृत्युः, तथा तवापि प्रमाद्यतः संयमायुभ्रंशः ॥६॥ अमुमर्थं स्पष्टयति
चरे पयाइं परिसंकमाणो, जं किंचि पासं इह मन्नमाणो । लाभंतरे जीविय बूहइत्ता, पच्छा परिणाय मलावधंसी ॥७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org