________________
चतुर्थं प्रमादऽप्रमादाख्यध्ययनम्
ওও प्रणष्टदीपा गुहातमोमोहिता इतस्ततो भ्रमन्तोऽहिदष्टा दुस्तरगर्ते पतिता मृताः, तथायमपि सम्यक्त्वश्रुतदीपेन विषमे धर्ममार्गे चलन् प्रमादाद् गतसम्यक्त्वतत्त्वो लोभाऽहिदष्टोऽधः पतेत् , न केवलं धनं त्राणाय न स्यात् , किन्तु त्राणहेतुं ज्ञानाद्याप्तं हन्ति ॥५॥ एवं धनाऽसारतां ज्ञात्वा कृत्यमाह
सुत्तेसु यावी पडिबुद्धजीवी, न वीससे पंडिय आसुपन्ने ।
घोरा मुहुत्ता अबलं सरीरं, भारंडपक्खीव चरेप्पमत्ते ॥६॥ व्याख्या-सुप्तेष्वविवेकिषु, द्रव्यतो निद्रया भावतो धर्म प्रति प्रमादेन, चः पूरणे, अपि सम्भावने, प्रतिबुद्ध एव जाग्रदेव जीवतीत्येवंशीलः प्रतिबुद्धजीवी, द्रव्यतो जाग्रत् , भावतः सम्यक्त्वतत्त्वज्ञः, द्रव्यसुप्तेषु प्रतिबुद्धजीवी निद्राहीनोऽगडदत्तवत् स्यात् ,
यथाऽवन्त्यां जितशत्रुराज्ञोऽमोघरथो रथिकस्तस्य यशोमती भार्या अगडदत्तश्च पुत्रः, तस्य बाल्ये पिता मृतः, सोऽन्यदाम्बां रुदन्तीं दृष्ट्वाऽपृच्छत् , तयोचे वत्सैषोऽमोघप्रहारी रथिकस्त्वत्पितुः पदं प्राप्तस्तं तथास्थं त्वां चाऽविद्यं दृष्ट्वा मे हृद् दूयते । तेनोचे को मां विद्यां शिक्षयति ? सोचे अस्ति कौशाम्ब्यां दृढप्रहारी ते पितुर्मित्रमिति । स गतः कौशाम्ब्यां मिलितश्च दृढप्रहारिणः, तेनापि धनुर्वेदादिजेन स्वपुत्र इव सर्वशस्त्रकलासु स पारिणीकृतः, अन्यदा स गुर्वनुज्ञातः सिद्धविद्यः स्वकला दर्शयितुं राजकुलेऽगात् । तच्छस्त्रकलया सर्वा सभा विस्मिता, राजाऽवक् तुभ्यं किं ददे ? तेनोचे स्वामिन् साधुकारमेव देहि ! तदा लोकै राजा विज्ञप्तः स्वामिन् साम्प्रतं नगरमध्येऽन्वहं स्तैन्यं भवति, तेन जनोऽपि निःस्वो जातोऽस्ति । राज्ञा तलारक्ष उक्तो यत्सप्तरात्रान्तश्चौरमानयेति । सोऽवक् स्वामिन् मया स निगृहीतुमशक्यस्तदागडदत्तेनोच्चे स्वामिन् सप्ताहान्तश्चौरमहमानेष्ये । अथ स राज्ञानुज्ञातो वेश्यासुराद्यूतस्थानजीर्णोद्यानशून्यदेवकुलादिषु चौरं निरूपयन् सप्तमेऽह्वि जीर्णोद्याने सायमानतले चौरग्रहणोपायं ध्यायन् निविष्टः, तावदुबद्धपण्डिडको दीर्घजङ्घो मुखेन गुणनं कुर्वन्नेकः परिवाड् तत्रागात् । दृष्टोऽनेन ज्ञातश्चौरः, स तत्पावें निविश्योचे, वत्स कस्त्वं ? किं खिन्नः ? सोऽवग् भगवन्नहमवन्तीवासी क्षीणस्वो यद्भविष्यो यत्र तत्र भ्रमन्नस्मि । सोऽवग् वत्साहं तवार्थं ददे, मा विषीद ? अगडोऽवग् भगवन्स्तर्हि तु महाकृपा ।
अथास्तेऽर्के ध्वान्ते च विस्तृते त्रिदण्डाच्छस्त्रं कृष्ट्वा स बद्धपरिकरो वत्स याव: पुरान्तरित्यवोचत् । अथं नूनं चौर इति ध्यायन्नगडोऽपि सशङ्कस्तमनुयातः, प्रविष्टौ च तौ पुरान्तः, तत्र श्रीमद्गृहे क्षात्रं दत्वा प्रविश्य च परिव्राजा रत्नादिभृताः पेटा निष्कासिताः,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org