________________
७६
श्रीउत्तराध्ययनदीपिकाटीका-१ भ्रात्रादिभिरूचे पूर्वेण सत्रा यातेति तैरनुज्ञातस्तद्युतोऽसौ गतः साधूपाश्रयं, तैरूचे क्व सार्थवाहः ? तेनोचे नूनं परलोकसार्थवाहोऽयं साधुः स्वेन पञ्चमहाव्रतात्मकेन भाण्डेन व्यवहारयति, अनेन सह शिवपत्तनं यामीति बलात् स प्रावाजीत् । यथायं वणिक् स्वजनाऽस्वजनत्वमालोचयन् प्रत्यावृत्तस्तथान्यैविवेकिभिर्यतनीयं । यत:
माता भ्राता भगिनी, भार्या पुत्रस्तथा च मित्राणि । न मन्ति ते यदि रुज, स्वजनबलं किं वृथा वहसि ॥१॥[ ] रोगहरणऽप्यशक्ताः, प्रत्युत धर्मस्य ते तु विघ्नकराः । मरणाच्च न रक्षयन्ति, स्वजनपराभ्यां किमप्यधिकम् ॥२॥ [ ] तस्मात् स्वजनस्यार्थे, यदिहाऽकार्यं करोषि निर्लज्ज ! । भोक्तव्यं तस्य फलं, परलोकगतेन त्वया मूढ ॥३॥[ ] तस्मात् स्वजनस्योपरि, विहाय रागं च निवृतो भूत्वा ।
धर्मं कुरुष्व यत्ना-दिहपरलोकस्य पथ्यदनम् ॥४॥[ ] कोऽपि वेत्ति यदि पुनर्द्रव्याच्छुट्यते तत्राह
वित्तेण ताणं न लभे पमत्ते, इमंमि लोए अदुवा परत्थ ।
दीवप्पणद्वैव अणंतमोहे, नेयाउयं दद्रुमदिट्ठमेव ॥५॥ व्याख्या-वित्तेन द्रव्येण त्राणं स्वकृतकर्मणो रक्षणं न लभते, प्रमत्तो मद्यादिप्रमादवान् , अस्मिन् लोके इह लोके, अथवा परत्रापि, पुरोधःपुत्रवत्
___ यथैकेन राज्ञा कस्मिंश्चिदुत्सवेऽन्तःपुरे निर्गच्छतीत्युद्धोषणाऽकारि, यत् सर्वे नराः पुरान्निर्गच्छन्तु, पौरा निर्गताः, पुरोध:सुतो राजमित्रं वेश्यागृहेऽस्ति, स ज्ञात्वापि न निर्गतः, राड्नरैश्च धृतः, अहं राड्मित्रं का मे भीरिति तैः सह विवदमानो राज्ञोन्तिकं स नीतः, राज्ञा वध्य आज्ञप्तः, पुरोधा एत्योचे सर्वस्वं ददे मा मार्यतां मे पुत्रस्तथापि राज्ञा न मुक्तः शूलायां दत्तश्च । एवमन्येऽपि वित्तेन त्राणमिह नाप्नुवन्त्यास्तामन्यजन्मनि । तन्मूर्छावत: पुनरधिकं दोषमाह-'दीवे' इति, प्रकर्षेण नष्टः प्रणष्टो दीपोऽस्येति प्राकृतत्वाद्दीपप्रणष्टः, स इव, अनन्तस्तद्भवापेक्षया मोहो ज्ञानदर्शनावरणमोहनीयात्मकोऽस्येत्यनन्तमोहो, निश्चित आयो लाभो न्यायो मुक्तिः, स प्रयोजनमस्येति नैयायिकस्तं सम्यग्दर्शनादिकं मुक्तिमार्ग, 'दटुं' ति, अन्तर्भूतः अपिशब्दः, दृष्ट्वाप्यदृष्टैव स्यात् , तद्दर्शनफलाऽभावात् ।
यथा केऽपि रसार्थिनः स दीपाद्युपकरणा यन्त्रशीलाकीर्णाद्रिबिलान्तर्गताः, प्रमादात्
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org