________________
चतुर्थं प्रमादऽप्रमादाख्यध्ययनम्
७५
क्षात्रं दत्तं, बहुद्रव्यजातमात्तं स्वगृहं गतः, प्रातः स्नात्वा शुद्धवासास्तत्र स गतः कः किं वक्तीति ज्ञातुं । तत्र मिलितो जनोऽवक् कथमत्र दुरारोहे प्रासादे आरुह्यानेन विमार्गेण क्षात्रं दत्तं ? कथं च लघुना क्षात्रद्वारेण प्रविष्टश्चौरः कथं निर्गतश्च ? इति श्रुत्वा स हृष्टो दध्यौ, सत्यमेतदहं कथमत्र प्रविष्टो निर्गतश्चास्मीत्यात्मनः कुक्षिं कटिं चालोक्य क्षात्रमुखं पश्यन् राज्ञो नरैर्ज्ञातश्चौरोऽयमिति बद्ध्वा राज्ञोऽग्रे आनीतोऽशिक्षि च । एवं पापकर्मेच्छापि न कार्या ॥३॥ कोऽपि वेत्ति यत्स्वजनैछुट्यते तदर्थमाह
संसारमावण्ण परस्स अट्ठा, साहारणं जं च करेइ कम्मं । कम्मस्स ते तस्स उ वेयकाले, न बंधवा बंधवयं उवेंति ॥४॥
व्याख्या - संसरणमुच्चावचकुलेषु भ्रमणं संसारस्तमापन्नः, 'परस्स' त्ति पुत्रकलत्रादेरर्थाय च एवार्थे, यद्वा साधारणं स्वस्यान्येषां चैतद्भवितेति कृत्वा कर्म कृष्यादि करोति भवान्, हे कृष्यादिकर्मकर्त्तस्ते तव तस्य परार्थस्य साधारणस्य च तु पुनर्वेदकाले कर्मफलविपाकसमये यदर्थं कर्म कृतं करोषि वा, ते बान्धवाः स्वजना बान्धवतां तत्पापविभजनस्फेटादिना नोपयान्ति, किं पुनः स्वार्थमेव कृतस्य फलं कथ्यते ? ततस्तत्प्रेमत्यागाद्धर्मे एवाऽवहितेन भाव्यं । आभीरीव्यञ्चकवणिग्वत् ।
यथैको वणिग् हट्टे व्यवहरन्नेकामृजुमाभीरीं रूपकौ लात्वा रूतार्थमायातां रूतसमर्घ्यत्वादेकरूपकरूतं द्विःकृत्वाऽदात् । सा वेत्ति द्वयो रूपकयोर्दत्तमिति लात्वा गता । वणिगप्येष रूपको मुधा लब्धस्ततो घृतपूरान् • भोक्ष्ये इति स मितान् घृतगुडान् गृहे प्रैषीत् । भार्ययापि ते कृताः, तदा तज्जामाता समित्रश्चौरहृतपश्वन्वेषणार्थं तत्रागात् । तया परिवेषितान् घृतपूरान् भुक्त्वा च स ययौ । वणिगथ स्नातो भोक्तुं गतः पत्न्यान्नं परिवेषितं, परं घृतपूरका न परिवेषिताः, ततः पृष्टे जामातृवृत्तान्तो ज्ञातस्तदा तेनाचिन्ति, सा मुग्धा मयाऽवञ्चि, घृतपूरा अप्यगुः, सचिन्तो देहचिन्तार्थं स ग्रीष्मे निर्गतो, मध्याह्ने च द्रुतले विश्रामाय स्थितः ।
इतस्ततो भिक्षायै यान्तं साधुं स ऊचे भगवन् क्षणमत्र विश्रामं लभस्व ! साधुरूचे मया तूर्णं स्वकार्ये गम्यं सोऽवक् किं कोऽप्यन्यकार्येऽपि याति ? साधुरूचे केचिदन्यकार्येऽपि यान्ति, यथा त्वं भार्याद्यर्थं क्लिश्यसि । तत् श्रुत्वा समर्मेण तद्वचसा स्पृष्टः सम्बुद्धः साधुस्थानं पृष्ट्वावसरे साधूपान्तं गतो धर्मं श्रुत्वा दीक्षेच्छुः स्वजनान् पृष्टुं स गृहं गतस्तान् भार्यां चोवाच, हट्टे व्यवहरतो मे तुच्छलाभस्ततो विदेशवाणिज्यं विधास्ये, यतो द्वौ सार्थवाहौ स्तस्तत्रैको भाण्डमूल्यं दत्वा सुखेनेष्टपुरं नयति, उपार्जितं च न याचते, द्वितीयो न किञ्चिद्भाण्डमूल्यं दत्ते, पूर्वार्जितं च लुम्पति ततः केन सहाहं यामीत्युक्ते
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org