________________
७४
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-ये नराः पापकर्मभिः पापहेतुकृषिवाणिज्यादिभिर्धनं द्रव्यं समाददते, किं कृत्वा ? अमति नञः कुत्सायामिति कुमतिं गृहीत्वा सम्प्रधार्य, यद्वा अमतमशोभनं मतं नास्तिकादि, अथवा अमृतविवामृतमात्मन्यानन्दहेतुत्वाद्धनं गृहीत्वा, ततः प्रहाय तद्धनं प्रकर्षेण त्यक्त्वा नरकमुपयान्तीति सम्बन्धः, तान् नरान् पश्य विलोकय ? 'पयट्टिए' प्रवृत्तान् प्रवर्त्तितान् वा पापधनेनैव मृति प्रति, वैरं पापकर्म, तेनानुबद्धान् वैरानुबद्धान् , यद्वा ते नराः पाशा इव पाशाः स्त्र्यादयस्तेषु प्रवृत्ताः पाशप्रवृत्ता नरकमुपयान्ति ॥२॥
नरकापायो न प्रत्यक्षलक्षोऽत इहैव मृत्य्वपायसूचको दृष्टान्त:-कस्मिश्चित् पुरे चौरो रात्रौ धनाढ्येषु गृहेषु क्षात्रं दत्वा दत्वा बह्वर्थान् हृत्वा स्वगृहैकदेशे कूपकं खात्वा तमर्थे त्वेष्टस्वैः कन्यां विवाह्य तां प्रसूतिवती सती रात्रौ हत्वा तत्रैव कूपे क्षिपति, मा मे भार्यापत्यानि च प्रौढान्यन्यस्य स्वं वदन्त्विति । पुनश्च स उदुह्यते । अन्यदैकां सुरूपां स ऊढः, सा प्रसूत्यनन्तरं मोहेन तेन न हता, सुतोऽष्टवार्षिको जातः, पितुश्चेष्टां च विलोकयामास, तदा शङ्कितेन तेन चौरेण चिन्तितं प्रागेनां हन्यां पश्चात् सुतमिति तां हत्वा सोऽवटेऽक्षिपत् , तत्क्षणमेव सुतस्तु गृहान्निर्गत्याऽनेन मे माता हतेति लोकानां पुरः पूच्चक्रे। राजनरैस्तत् श्रुत्वा तद्गृहमेत्य स धृतो दृष्टश्च कूपो द्रव्यभृतोऽस्थीनि च तत्र । ततस्तैर्बद्ध्वासौ राज्ञेऽर्पितः, राज्ञा सर्वस्वं लोकानां दत्वा स दुरैिरघानि । एवमन्येऽपि धनं प्रधानमिति तदर्थं प्रवर्त्तमानास्तदपहायेहैवाऽनप्ता नरकं यान्ति ॥२॥
कर्मणामवन्ध्यतां वदन् प्राक्कृतमर्थं दृढयतितेणे जहा संधिमुहे गहीए, सकम्मुणा किच्चइ पावकारी । एवं पया पिच्च इहं पि लोए, कडाण कम्माण न मोक्ख अत्थि ॥३॥
व्याख्या-स्तेनश्चौरो यथा सन्धिः क्षात्रं, तस्य मुखे द्वारे गृहीतो धृतः, स्वकर्मणा स्वानुष्ठानेन गृहेशेन बहि:स्थचौरेण चाकृष्यमाण इव कृत्त्यते छिद्यते, पापकारी ।
___ यथैकेन चौरेणाऽभेद्योपवरके फलकाञ्चिते कपिशीर्षाकारं क्षात्रं पातितं, क्षात्रे चौरोऽर्धप्रविष्टः सन् गृहेशेन ज्ञात्वांहूयोर्गृहीतः, ततो ज्ञापिततत्स्वरूपेण बहिःस्थचौरेणापि स गृहीतः, एवं द्वाभ्यां बलवद्भ्यां स्वाभिमुखमाकृष्यमाणः स स्वयंकृतकपिशीर्षधाराभिः स्फाट्यमानोऽत्राणोऽभूत् । एवं चौरवत् हे प्रजाः हे प्राणिन: पेच्छन्ति प्रेक्षध्वं ! प्राकृतत्वाद्वचनव्यत्ययः, इहाऽस्मिन् लोके जन्मनि, आस्तां परलोके इत्यपिशब्दार्थः, कृतानां कर्मणां न मोक्षोऽस्ति (पाठान्तरे-'एवं पया पिच्च इहं च' त्ति) प्रजाः प्रेत्य परलोके इह लोकेऽपि कृत्त्यन्ते तादृग्बाधाभिः, यथैकेन चौरेण रात्रौ दुरारोहे प्रासादे आरुह्य विमार्गेण
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org