________________
७३
चतुर्थं प्रमादऽप्रमादाख्यध्ययनम् भक्तमादाय तत्रागात् , भृतघटसमानं कूरं सोऽत्ति स्म । सञ्ज्ञाभूमिं गतमट्टनो जाठराग्निना सर्वाहारः पक्वोऽस्येति तं परीक्ष्य विकाले तद्गृहे गत्वोचेऽट्टनोऽहं मदन्ते त्वं तिष्ठ ? त्वामीश्वरं कुर्वे इति । तेन तद्वचः प्रपद्य भार्यावन्त्यां प्रैषि । अट्टनेन स वमनविरेचादिनाऽपोषि, युद्धं च तस्य शिक्षितं, स फलहीमल्लाख्येन प्रसिद्धोऽभूत् । आगामिवर्षेऽट्टनस्तेन सह सोपारकं यातः, तत्र फलहीमल्लमत्सीमल्लाभ्यां युद्धमारब्धं, एकं दिनं गतं, न कोऽप्यजैषीत्, सायं राजा मल्लाश्च स्वस्थानं गताः, अट्टनेन फलहीमल्ल उक्तः पुत्र ! यत्ते दुष्यति तद्वाच्यं, तेन तदुक्तेर्मनस्नानसेकादिना सोऽसज्जि । मत्सीमल्लस्यापि राज्ञा मर्दनिकाः प्रहिताः, सोऽवददहमेतत्पितुरट्टनस्य जेता, ततः कोऽसौ वराकः ? किमत्र मईनिकैः कार्यं ? इति ता स व्यसर्जयत् ।
द्वितीयेऽह्यपि तौ युद्धं चक्रतुः, तदा श्रान्तो मत्सीमल्लः फलहीमल्लेन जितः, अट्टनो राज्ञा सत्कृतो गतोऽवन्ती, तत्र मुक्तयुद्धव्यापार: स्वजनैर्जरया सर्वार्थाऽक्षम इति मत्वा पराभूतः, तदा स ताननापृच्छ्यैव कौशाम्ब्यां गत्वा वर्षं यावच्च तत्र रसायनभक्षणेन बलिष्ठीभूयावन्त्यामागत्य युद्धे राज्ञो निरङ्गनाभिधं मल्लं जघान । तदाऽागन्तुकेन मल्लेन मे मल्लो हत इति राजा कोपातुरो न तं प्राशंसत् , जना अपि तूष्णीं स्थिताः, तदाऽट्टनो राज्ञो ज्ञप्त्यै प्रोवाच
साहह वण सउणाणं, साहह भो ! सउणिगा सउणिगाणं ।
निहओ निरंगणो अट्ट-णेण निक्खिन्नसत्थेणं ॥१॥ [उ.४/१ बृ.व.] ततो राज्ञाऽट्टनोऽयमिति ज्ञात्वा तुष्टेन तस्मै जन्मावधिभोज्यं स्वं दत्तं । स्वजनास्तद् ज्ञात्वा तत्रैतास्तत्पादपाताद्यैरर्थलाभात्तमावर्जयितुं लग्नाः, तदा स दध्यो नूनमीमे सर्वे द्रव्यसम्बन्धिनो नो मम, ततो यावत् सचेष्टोऽस्मि तावत्प्रव्रजामीति स दीक्षितः, एवं जरोपनीतस्याऽट्टनस्येवान्यस्यापि न त्राणं बन्धुभिः पालनं, जरातो वा रक्षणम् ।
एवमित्येवम्प्रकारं (पाठान्तरे एनमुक्तमर्थ) विशेषेण विविधं वा जानीहि ? भो जना लोकाः प्रमत्ताः प्रमादिनः, सूत्रत्वादुभयत्रैकवचनं । किमर्थं त्राणमवलम्बनं ? 'गहिति'त्ति सूत्रत्वाद् गमिष्यन्ति ग्रहीष्यन्ति वा, नु इति वितर्के, अत्राणा नरकं गमिष्यन्ति, किम्भूताः ? विहिंस्त्रा विविधहिंसनशीलाः, जन्तून् विहिंसन्तीति विहिंसा वा, तथा अयताः पापस्थानेभ्योऽनुपरताः, यद्वा जनः प्रमत्तः ‘कन्नु'त्ति कामप्यवक्तव्यां नरकादिगतिमसौ ग्रहीष्यति ॥१॥
किं तव विवेकिनोऽपि प्रमादः ? इति गुरूपदेशं, कोप्यर्थस्यापि पुरुषार्थत्वान्मा प्रमादीरित्यर्थविषये वक्ति, तत्राह
जे पावकम्मेहि धणं मणूसा, समाययंते अमइं गिहाय । पहाय ते पासपयट्टिए नरे, वेराणुबद्धा नरयं उर्विति ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org