________________
चतुर्थं प्रमादऽप्रमादाख्यध्ययनम् ॥
चतुरङ्ग्याप्तावपि प्रमादो महादोषाय अप्रमादो गुणाय चेति तुर्यं प्रमादाऽप्रमादनामाध्ययनमाह
असंखयं जीविय मा पमायए, जरोवणीयस्स हु नत्थि ताणं । एयं वियाणाहि जणे पमत्ते, कन्नु विहिंसा अजया गहिति ॥१॥
व्याख्या-न संस्क्रियते तदसंस्कृतं, शक्रशतैरपि वर्द्धयितुं त्रुटितं वा कर्णवत् सन्धातुमशक्यं जीवितं, ततो मा प्रमादी:, चतुरङ्ग्याप्ते धर्मे प्रमादं मा कृथाः ! यतो जरयोपनीतस्य मृत्युसमीपं प्रापितस्य, हुः यस्माद्धेतोर्नास्ति त्राणं शरणं येन मृत्युतो रक्षा स्यात् , उक्तं च वाचकैः
मङ्गलैः कौतुकैर्योगै-विद्यामन्त्रैस्तथौषधैः ।
न शक्या मरणात् त्रातुं, सेन्द्रा देवगणा अपि ॥१॥[ ] यद्वा वार्द्धक्ये धर्मं करिष्ये इति कश्चिद्वक्तीत्याशङ्क्याह-जरामुपनीतस्य स्वकर्मभिर्नास्ति त्राणं, येन पुनर्योवनमानीयते, तदा पुत्रादयोऽपि न पालयन्ति ।
अत्राऽट्टनो दृष्टान्त:-अवन्त्यां जितशत्रुर्नृपः, तद्राज्येऽट्टनाख्यो मल्लोऽस्त्यजेयः, तदा च सोपारकपुरे सिंहगिरी राजा, तत्र यो मल्लान् जयति तस्य स बहु स्वं दत्ते, अट्टनो वर्षे वर्षे तत्र गत्वा तत्रत्यमल्लान् जित्वा द्रव्यं लाति, एकदा राज्ञाचिन्ति, एषोऽन्यराज्यादेत्यात्रत्यमल्लान् जयति तन्न मे शोभा, ततः प्रतिमल्लं कुर्वे, एको मत्सी वसापानान्महाबली दृष्टो, योग्योऽयमिति राज्ञाऽऽपोषि मल्लोऽस्थापि च, द्वितीयवर्षे तेन सहाट्टनेन युद्धं प्रारब्धं, तदा मत्सीमल्लेनाटनो जितः, स्वगृहं गतः स दध्यौ, मम वार्धक्यमस्य च तारुण्यं, ततोऽहमन्यं शिक्षयामीति भ्रमन् सुराष्ट्रायामेकं कर्षकमेकेन करेण हलं वाहयन्तं, द्वितीयेन च फलहीमुत्पाटयन्तं दृष्ट्वा विस्मितः, तावत्तद्भार्या
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org