SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ तृतीयं चातुरङ्गीयमध्ययनम् व्याख्या - भुक्त्वा मानुष्यकान् भोगान्, मनोज्ञान् शब्दादीन्, अप्रतिरूपान्असमानान्, यथायुर्यावज्जीवं पूर्वं पूर्वजन्मनि, विशुद्धो निदानादिहीनत्वात् सद्धर्मोऽस्येति विशुद्धसद्धर्मः, केवलामकलङ्कां बोधि बुद्ध्वा प्राप्य ॥ १९ ॥ व्याख्या - ततोऽपि चतुर्णामङ्गानां समाहारश्चतुरङ्गी, तामुक्तस्वरूपां दुर्लभां मत्वा ज्ञात्वा संयमं सर्वविरतिं प्रतिपद्य, तपसा बाह्याभ्यन्तरेण धुताः स्फेटिता: कर्मणोंशा भागा येन स धूतकर्मांशः सिद्धो भवति । स न आजीविकमतसिद्धिवत् पुनरिहैतीत्याह-शाश्वतः शस्वद्भवनात्, शस्वद्भवनत्वं पुनर्भवहेतुकर्मबीजात्यन्तिकोच्छेदात् । उक्तं चदग्धे बीजे यथात्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे, नारोहति भवाङ्कुरः ॥१॥ [ तत्त्वा.अ.१०सू.७भा. ] इति समाप्तौ ब्रवीमीति पूर्ववत् ॥२०॥ Jain Education International 2010_02 इति चातुरङ्गीयं तृतीयाध्ययनमुक्तम् ॥३॥ ७१ For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy