________________
तृतीयं चातुरङ्गीयमध्ययनम् बारसमासपरियाए अणुत्तरोववाइयाणं० वीईवयइ । तेण सुक्के सुक्काभिजाइए भवित्ता । ततो पच्छा सिज्झइ" । तपस्तेजसा तत्तद्देवाधिकाः साधवः स्युः, नागार्जुनीयास्तु पठन्ति
चउद्धा संपयं लद्धं, इहेव ताव भासए ।
तवतेयसुसंपन्ने, घयसित्तो व पावए ॥१॥ चतुर्धा सम्पदं मानुष्यादि लब्ध्वा, इहैव लोके, तावदास्तां परत्र, तेजसा विभ्राजते ज्ञानश्रिया दीप्यते, तेजसा तपस्तेजसा संपन्नो युक्तः, शेषं प्राग्वत् ॥१२॥
अत्र परत्र च फलायोपदेशः
विगिंच कम्मुणो हेडं, जसं संचिणु खंतिए ।
पाढवं सरीरं हिच्चा, उट्ठे पक्कमई दिसं ॥१३॥ व्याख्या-वेवेग्धि पृथक्कुरु ? कर्मणो हेतुमुत्पादकं कारणं मिथ्यात्वाऽविरत्यादिकं, तच्चाऽयशोहेतुत्वात् । यशः संयम विनयं वा सञ्चिनु पुष्टं कुरु ? क्षान्त्या मार्दवाद्यैश्च, ततः 'पाढवं'ति पार्थिवमिव पार्थिवं मृन्मयाभं मानुषं शरीरं हित्वा ऊर्खा दिशं प्रक्रामति अपुनर्भवतया याति येन भवान् , त्वं मोक्षं यासीति तात्पर्यम् ।।१३।।
इत्थं सिद्धियायिनामुक्तं परेषां त्वाह
विसालिसेहिं सीलेहिं, जक्खा उत्तरउत्तरा । महासुक्का व दिप्पंता, मन्नंता अपुणच्चयं ॥१४॥ अप्पिया देवकामाणं, कामरूवविउव्विणो ।
उठें कप्पेसु चिट्ठति, पुव्वावाससया बहू ॥१५॥ व्याख्या-'विसालिसेहिं'ति मागध्यां विसदृशैः स्वस्वचारित्रमोहनीयक्षयोपशमगर्भितैः शीलैर्वृतपालनैर्यक्षा देवा ऊर्ध्वं कल्पेषु कल्पोपरिवर्तिषु ग्रैवेयकेष्वनुत्तरविमानेषु कल्पेषु सौधर्मादिषु च तिष्ठन्तीति, उत्तरोत्तरा उत्तरोत्तरविमानस्था महाशुक्लाश्चन्द्रार्काद्या इव दीप्यमानाश्चारुशब्दादिविषयोत्पन्नरत्यब्धिमग्नत्वाद् दीर्घस्थितित्वात् स्वमपुनश्चवं मन्यमानाः ॥१४॥
एवं देहसुखसम्पदावुक्ते । तथा प्राकृतसुकृतैरर्पिता ढौकिता देवकामानां देवस्त्रीस्पर्शादीनां, सूत्रत्वात् , कामरूपविकरणा यथेष्टरूपकृतिशक्तयः, पूर्वाणि बहूनि, जघन्यतोऽपि पल्योपमस्थितित्वात् तत्राऽसङ्ख्यपूर्वाणां भावात् , एवं वर्षशतान्यपि बहूनि, पूर्ववर्षशतायुषामेव व्रतयोग्यत्वेन विशेषाद्देशनार्हतेत्थमुक्ता, अत्रैष भावोऽपि व्यङ्ग्यः ॥१५॥ युग्मम् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org