SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ६७ तृतीयं चातुरङ्गीयमध्ययनम् इव खत्तिय' त्ति क्षत्रियो भ्रष्टराज्यः सर्वार्थान् प्रार्थयमानो नोद्विजते, तथैते जीवाः सुखानीहन्ते ॥५॥ कम्मसंगेहिं संमूढा, दुक्खिया बहुवेयणा ।। अमाणुसासु जोणीसु, विणिहम्मति पाणिणो ॥६॥ व्याख्या-ततः कर्मसङ्गैः सम्मूढाः दुःखिताः, बह्वयो वेदना येषां ते बहुवेदनाः प्राणिनोऽमानुषासु नरकतिर्यगाभियोग्यादिदेवदुर्गतिषु योनिषु विहन्यन्ते विशेषेण निपात्यन्ते कर्मभिः ॥६॥ नृत्वाप्तिमाह कम्माणं तु पहाणाए, आणुपुव्वी कयाइओ । जीवा सोहिमणुपत्ता, आययंति मणुस्सयं ॥७॥ व्याख्या कर्मणां नृगतिनिवारकाणां अनन्तानुबन्ध्यादीनां प्रहाणस्य क्षयस्य आये लाभे सति, अनेनेश्वरकर्तृत्वं निरस्तं, आनुपूर्व्या क्रमेण न झगित्येव, तुरेवार्थे, कदाचिदेव न सर्वदा, जीवाः शुद्धि, क्लिष्टकर्महान्या पश्चादनुप्राप्ता आश्रिताः सन्तो मनुष्यतामाददते स्वीकुर्वन्ति ॥७॥ नृत्वेऽपि श्रुतिर्दुर्लभेत्याह माणुस्सं विग्गहं लद्धं, सुई धम्मस्स दुल्लहा । जं सुच्चा पडिवज्जंति, तवं खंतिमहिंसयं ॥८॥ व्याख्या-मानुष्यं मनुष्यसम्बन्धिनं विग्रहं देहं लब्ध्वा, अपि गम्यः, श्रुतिधर्मस्य दुर्लभा स्यात् । बौद्धादिधर्मत्यागायाह-यं धर्मं श्रुत्वा प्रपद्यन्ते तपो द्वादशधा, क्षान्ति क्रोधादिजयं, अहिंस्रतां अहिंसनशीलतां, अमृषावादादिव्रतानि च ॥८॥ श्रुत्याप्त्यामपि श्रद्धा दुर्लभेत्याह आहच्च सवणं लद्धं, सद्धा परमदुल्लहा । सोच्चा नेयाउयं मग्गं, बहवे परिभस्सइ ॥९॥ व्याख्या-'आहच्च' इति कदाचित् श्रवणं धर्माकर्णनं नृत्वे लब्ध्वापि श्रद्धा धर्मेच्छा परमदुर्लभा स्यात् , श्रुत्वा नैयायिकं न्याययुक्तं मागं सम्यक्त्वादिमुक्तिपथं बहवः परीति सर्वप्रकारं भ्रस्यं ते नैयायिकमार्गात् । केचिज्जमाल्यादीन्याहुः ।।९।। _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy