________________
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-प्रजा जीवाः, जना वा, समन्तादापन्नाः प्राप्ताः, ण इत्यलङ्कारे, संसारे नानागोत्रासु अनेकाख्यासु जातिषु क्षत्रियादिषु, कर्माणि ज्ञानावरणादीनि नानाविधानि कृत्वा, “पुढो' पृथक् पृथक् एकैकशो, बिन्दुरलाक्षणिक: विश्वभृतो जगत्पूरका वर्त्तते,
नत्थि किर सो पएसो, लोए वालग्गकोडिमित्तो वि ।
जम्मणमरणाबाहा, जत्थ जिएहि न संपत्ता ॥१॥ [म.प./गा.२३८ ] विश्रम्भिता वा कर्मसु, तद्विपाकाऽज्ञानात् पुनर्मानुष्यं दुःखेन लप्स्यन्ते ।।२।।
यतः
एगया देवलोएसु, नरएसु वि एगया ।
एगया आसुरं कायं, अहाकम्मेहिं गच्छइ ॥३॥ व्याख्या-एकदा शुभकर्मानुभवकाले देवलोकेषु सौधर्मादिषु, एकदा नरकेषु रत्नप्रभादिष्वपि, एकदा असुराणामयमासुरस्तं कायं निकायं, यथाकर्मभिः स्वयंकृतैः शुभाशुभदेवनारकासुरगतिहेतुभिः क्रियाविशेषैस्तत्तद्गतिहेतुचेष्टितैः सरागसंयममहारम्भा जीवा गच्छन्ति ।।३।।
एगया खत्तिओ होइ, तओ चंडाल वोक्कसो ।
तओ कीडपयंगो य, तओ कुंथू पिवीलिया ॥४॥ व्याख्या-सूत्रवैचित्र्याबहुवचनक्रमेऽप्येकवचनं । एकदा क्षत्रियो राजा भवति, 'तओ' ततस्तको वा, प्राणी चाण्डाल: स्यात् । यदि वा शूद्रेण ब्राह्मण्यां जातश्चाण्डालः, निषादेन शूद्रयां जातो वोक्कसो, वर्णभेदः, अत्र क्षत्रियादिग्रहणेन नीचसङ्कीर्णजातय उक्ताः, ततो नृत्वादनु कीट:, पतङ्गः शलभः, च समुच्चये, ततस्तको वा कुन्थुः, पिपीलिका च भवति। कीटाद्यैः शेषतिर्यग्भेदा दर्शिताः ॥४॥ तथापि
एवमावट्टजोणीसु, पाणिणो कम्मकिव्विसा ।
न निव्विज्जंति संसारे, सव्वढेसु य खत्तिया ॥५॥ व्याख्या-एवमावर्त्तनमावर्त्तः परिवर्तस्तेनोपलक्षितासु योनिषु चतुरशीतिलक्षेषु प्राणिनः कर्मणा किल्बिषा अधमा नोद्विजन्ते भवभ्रमात् , कदापि छुटिष्याम्यहं न वेति न निर्विद्यन्ते, के इव ? क्षत्रिया इव, यथा क्षत्रियनृपाः सर्वार्थेषु रम्यशब्दादिषु धनहेमादिषु वा न निर्विद्यन्ते, प्रत्युत तान् भुञ्जानः सतृष्णा एव स्युः पाठान्तरे-'सव्वट्ठ
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org