________________
श्रीउत्तराध्ययनदीपिकाटीका-१ स्वप्रदेशस्यात्मना सह सम्बन्धाऽसिद्धेः, यतोऽत्र सम्बन्धो भिन्नानां संयोगे सतीष्यते, स विभिन्नत्वात् कर्मणो जीवेन सहास्ति, न तु प्रदेशस्य, अनादितोऽपि जीवस्वप्रदेश-योरैक्यात् । यच्चोक्तं जीव कर्मणा स्पृष्ट इत्यादि, तत्र चेत् कञ्चुकेनेव बाह्यप्रदेशेष्वेव स्पृष्टो न तु प्रतिप्रदेशं, तदान्तरप्रदेशेष्वात्मनः सहवत्ति आन्तरज्ञानं प्रतिघाताऽभावादनन्तं सर्वदा स्यान्न चैतद् दृष्टमिष्टं वा, तथा कर्मबन्धहेतुजीवाध्यवसायस्य ज्ञानमयस्य सर्वात्मनि सद्भावात् , कर्मवेदनायाः सर्वात्मनाऽनुभवनाच्च सर्वात्मप्रदेशैर्बद्धं कर्मेति मन्तव्यं । एवमपि जीवकर्मणोवियोगः स्यादेव । यतो जीवात् कर्म वियुज्यते, मूर्त्तत्वे सत्यविभागसम्बद्धत्वात् , स्वर्णमलवत् , कर्मक्षये च मोक्ष एव ।
एवंविधेनोक्ते गोष्ठामाहिलो निरुत्तरः सन् नवमपूर्वे प्रत्याख्यानाधिकारे वक्ति श्रेयोऽपरिमाणप्रत्याख्यानं, परिमाणप्रत्याख्यानं पौरुष्यादि दुष्टं, यतस्तत्राशंसा प्रत्याख्यानकालादनुभोक्ष्ये इति वाञ्छा स्यात् , स विन्ध्येनोपेक्षितः पुष्पान्तिके गत्वा स्वमतं वक्ति, पुष्प आह अहो ! अपरिमाणमिति कोऽर्थः ? यावच्छक्तिरुताऽनागताद्वा ? आये शक्तिमितकालावधिभावेनास्मन्मताऽभ्युपगमः, द्वितीये तु मृतानां देवत्वे त्ववश्यं भावी व्रतभङ्गोऽतः परिमितमेव प्रत्याख्यानं कार्यं सुकृतहेतुत्वात् प्रासादादिवत् । ततोऽयं स्थविराणां अन्यगच्छबहुश्रुतानां सङ्घस्य च, तथा सङ्घाकारितायाः सङ्घस्यैव कायोत्सर्गसान्निध्येन श्रीसीमन्धरं पृष्टैतायाः शासनसुर्या वाचं न मेने । पुष्पमित्रैर्गत्वोक्तं, तदप्यमन्वानो द्वादशसम्भोगहीनः सङ्घबाह्यः कृतो निह्नवोऽयमभव्योऽभूत् । गतः सप्तमो निह्नवः ॥७॥
एवं देशनिहवानुक्त्वा बहुविसंवादिनिह्रवानाह-रथवीरपुरे सहस्रमल्लः शिवाख्यः क्षत्रियः पाण्डुमथुराजयाल्लब्धराजप्रसादः स्वेच्छया क्रीडित्वा प्रत्यहं निशीथे गृहमेति । तत्पत्नी खिन्ना । एकदा तन्मातुस्तमुदन्तमुक्त्वा सा सुप्ता । मात्रावासमागतोऽसाववादि, अधुना यत्र द्वारण्युद्घाटितानि स्युस्तत्र याहि ? स दीपकोद्याने कृष्णसूरिपार्श्वे गत्वा स्वयं लोचं चक्रे । गुरुभिलिङ्गं दत्तं, अन्यदा तस्य राज्ञा रत्नकम्बलं ददे, गुरुणा साधूनां बुहमूल्यं वस्त्रं न युक्तमित्युक्तोऽपि स गुरुच्छन्नं तत्संगोप्य गोचरगतोऽन्वहं वीक्षते, मुधा मूर्छास्येति गुरुणा तत्परोक्षे तत् छित्वा साधूनां निषद्यादि कृतं । तद् ज्ञात्वा स दूनः, अन्यदा तत्र मण्डल्यां जिनकल्पो वर्ण्यते, यथा
जिणकप्पिया य दुविहा, पाणीपत्ता पडिग्गहधरा य । पाउरणमपाउरणा, इक्किक्का ते भवे दुविहा ॥१॥ [प्रव.सा./गा.४९४]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org