________________
तृतीयं चातुरङ्गीयमध्ययनम् उवाइ श्येनिका, एताभिः प्रतिविद्याभिश्च गुरुदत्ताभिमन्त्रितविश्वविद्याऽजेयधर्मध्वजेन तु रासभी विद्यां स जिग्ये । तत्र नोशब्दो देशवाची, तेन नोजीवस्तत्क्षणत्रुटितपल्लीपुच्छादिः, आमलिततन्त्वादिश्च, श्रीगुप्तेन वसतावागतो द्रव्य १ गुण २ कर्म ३ सामान्य ४ विशेष ५ समवायाख्य६षट्पदार्थस्थापकत्वादुलूकगोत्रप्रभवाच्च षडुलूको रोहगुप्तोऽभाणि, त्वया श्रुताऽनुक्तमुक्तं, ततो राट्समक्षं ब्रूहि ! यन्मया वादिनिग्रहाय राशिवयं स्थापितं परं श्रुते नास्तीति । सोऽनिच्छन् गुरुणा सह राज्ञोऽग्रे षण्मासान् वादं विहितवान् । ततः प्रान्ते कुत्रिकापणे सुरेण जीवाजीवाख्ये वस्तुनी ददति नोजीवं चाऽददति स चतुश्चत्वारिंशच्छतपृच्छाभिनिगृहीतः, राज्ञा नगरे घोषितं जयति जिनो वर्धमानः, ततः स रोहगुप्तो राज्ञा निर्विषयीकृतस्तेन च वैशेषिकसूत्राणि कृतानि । गतः षष्ठः ॥६॥
दसपुरनयरेच्छ्घरे, अजरक्खिय पूसमित्ततियगं च ।
गोठ्ठामाहिलनवम-ट्ठमेसु पुच्छा य विंझस्स ॥१॥ [ उत्त.नि./गा.१७५ ] दशपुरे इक्षुगृहे इक्षुवाटे रक्षितः प्राव्राजीत् , तच्छिष्यो घृतलब्धिमान् घृतपुष्पमित्रः, तस्मै अधना वृद्धा धिग्जापि स्त्री षण्मासमिलितं घृतं हृष्टा दद्यात् , एवं वस्त्रपुष्पमित्रोऽपि, तथा नवपूर्वी नित्यं घृताश्यपि सर्वश्रुतचतुरनुयोगार्थस्मृतिध्यानात् कृशो दुर्बलिकापुष्पमित्रः, इति पुष्पमित्रत्रिकमभूत् । तथा दुर्बलिकापुष्पमित्र: १ विन्ध्यः २ फल्गुरक्षितः ३ गोष्ठामाहिलश्चेति प्रज्ञाः, रक्षितैरेकदा मथुरायां नास्तिकवादिजयाय गोष्ठामाहिलः प्रेषितः, स्वयं च कालं कुर्वद्भिर्दुर्बलिकापुष्पमित्रः पट्टेऽस्थापि । गोष्ठामाहिलो वादिनं जित्वाऽायातो दुर्बलिकापुष्पमित्रं पट्टे श्रुत्वाऽमर्षत् पृथक्स्थानस्थस्तच्छिद्राण्यपश्यत् । साधून व्युद्ग्राहयितुं चाक्षमो गर्वाहुर्बलिकापुष्पमित्रपार्श्वे नाशृणोत् , किं तु दुर्बलिकापुष्यगुरुपाद्येऽधीत्य 'नवमट्ठमेसु त्ति' नवमाष्टमपूर्वयोर्विचारं चिन्तयतो विन्ध्यस्यान्तिके स शृणोति । अन्यदाऽष्टमपूर्वे किञ्चित् कर्मात्मप्रदेशैर्बद्धमात्रमेव शुष्ककुड्यलग्नधूलीवद्विघटते, किञ्चित्तु बद्धस्पृष्टं आत्मप्रदेशैरात्मीकृतमार्द्रकुड्ये सस्नेहचूर्णवत् , किञ्चित्तु निकाचितं आत्मना सहाऽग्न्याऽयःपिण्डवदैक्यं प्राप्तं । इति विन्ध्योक्ते गोष्ठामाहिल आह नैवं, मोक्षभावाप्तेः, यतो जीवाद्बद्धं कर्म न वियुज्यते अन्योऽन्याऽविभागसम्बद्धत्वात् ।
ततोऽजीवः कर्मणा स्पृष्टः, परं न बद्ध:, किन्तु कञ्चको, न वा तद्वानिति । ततो विन्ध्यस्य दुर्बलिकापुष्पमित्रगुरुपायें पृच्छा । गुरुराह-माहिलोक्तो हेतुरनेकान्तिकोऽन्योऽन्याऽविभागानामपि क्षीरनीरादीनामुपायतो वियोगदर्शनात् । दृष्टान्तोऽपि न साधनधर्मानुगः,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org