________________
६१
तृतीयं चातुरङ्गीयमध्ययनम् अद्यापि दग्धुमारब्धास्ति । इत्यादि । ततः साधवः साध्व्यश्च जमालिं मुक्त्वा बुद्धाः श्रीवीरान्ते आलोच्य प्रतिक्रान्ताः, जमालिस्तदैव चम्पायां श्रीवीरान्तिके गत्वा विभुं जगौ देवानुप्रिय ! यथैके शिष्याः छद्मस्थाः सन्ति तथाहं नास्मि, छद्मस्थोऽहं केवलज्ञानदर्शी, गौतमेनोक्तं चेत्त्वं ज्ञानी तद्वद ! लोकः किं शाश्वतोऽशाश्वतो वा ? जीवः किं शाश्वतोऽशाश्वतो वा ? जमालिनिरुत्तरस्तस्थौ संशयात् । श्रीवीरोऽवग् जमाले ! सन्ति मे बहवश्छद्मस्थाः शिष्याः, ये मद्वन्नित्याऽनित्यलोकजीवस्थापकाः, यतो यथा त्वं शाश्वतं लोकं जीवं चाचख्यौ तथा न । यतो जीवलोको नित्यो ध्रुवो द्रव्यतः, कालतस्त्वशाश्वत उत्सर्पिण्यादिपरावर्तात् नृत्वादिपर्यायपरावर्ताच्च । ततो जमालिर्जिनोक्तमश्रद्दधानोऽर्हत्पार्वं मक्त्वा बह्वसत्कल्पनाभिः स्वं परांश्च दूषयन् बहुवर्षाणि व्रतं प्रतिपाल्य षष्ठाष्टमादीनि बहूनि कृत्वा पक्षं संलेख्याऽनालोचितो लान्तके त्रयोदशसागरायु:किल्बिषिकोऽभूत्
पञ्चतिरिक्खजोणिए, मणुस्सदेवे भवग्गहणाई।
संसारं अणुपरियट्टित्ता, तओ पच्छा सिज्झिहि त्ति ॥१॥[ ] उक्त आद्यः ॥१॥
ऋषभपुरेऽपराह्ने राजगृहे गुणशीले चैत्ये चतुर्दशपूर्विणो वसुसूरेः शिष्यस्तिष्यगुप्त आत्मप्रवादपूर्वे “एगे भंते ! जीवप्पएसे जीव त्ति वत्तव्वं सिया, नो इणमटे, एवं दो जीवपएसा, तिन्नि संखिज्जा वा जाव एगेणावि पएसेण ऊणो, नो जीव त्ति वत्तव्वं सिया, जम्हा कसिणे पडिपुन्ने लोगागासपएसे तुल्लपएसे जीव त्ति वत्तव्वं" [ ] इत्यादि पठन् विप्रतिपन्नो यदि जीवप्रदेशा एकप्रदेशेनापि हीना नात्माख्यां लभन्ते किन्त्वन्त्यप्रदेशयुक्ता एव, ततोऽन्त्यप्रदेश आत्मा, आत्मत्वस्य तद्भावभावित्वादित्याख्यात् । गुरुणोक्तं नैवं, आत्माऽभावप्रसङ्गात् , यतोऽन्त्यप्रदेशोऽप्यजीवोऽन्यप्रदेशतुल्यपरिमाणत्वात् प्रथमादिप्रदेशवत् । प्रथमादिप्रदेशो वाऽजीवः शेषप्रदेशतुल्यपरिमाणत्वात् अन्त्यप्रदेशवत् ।
न च पूरण इति कृत्वा तस्यात्मत्वं युक्तं, एकैकस्य पूरणत्वाऽविशेषादेकमपि विना तस्याऽपूर्णतेत्युक्तोऽप्यमन्वानो गुरुणोत्सृष्टोऽसौ स्वमन्यांश्च भ्रामयन्नामलकल्पापुर्यामम्बशालवनस्थोऽन्यैर्निह्नवैर्युग् मित्रश्रीश्राद्धेन सङ्घड्यां यूयं मद्गृहे पादाक्रमणं कुरुतेति निमन्त्रितास्ते आगुः, स कूरस्थाल्यादेरन्त्यसिक्थानि, वस्त्रादेश्चान्त्यतन्तु ददौ, ते तु बहु दास्यतीति ध्यायन्तः किमिदमित्याख्यन्तश्चेद्भवन्मतं सत्यमर्थसिद्धिकृत्तदा तथा दत्तं, न तु श्रीवीरमतेनेत्युक्त्या ते सम्बुद्धा आर्य ! सत्या नोदनेत्यूचुः, ततः श्राद्धेन ते प्रतिलाभिताक्षामिताः सर्वे आलोच्य प्रतिक्रान्ताः ॥ गतो द्वितीयः ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org