________________
ur
श्रीउत्तराध्ययनदीपिकाटीका-१ गंगाओ दो किरिया, छलुगा तेरासियाण उप्पत्ती ।
थेरा य गोट्ठमाहिल, पुट्ठमबुद्धं परूवंति ॥२॥ [ उत्त.नि./गा.१६६] अर्थ:-बहुरता निवाः, नैकसमयेन वस्तूत्पद्यते, किन्तु बहुभिः समयैस्तन्निष्पत्ति यातीति बहुरताः, जमालिप्रभवाः, जमालेरुत्पन्नाः ॥१॥
जीवप्रदेशा अन्त्यप्रदेशप्रदेशवादिनो, यथात्मनः सर्वप्रदेशेष्वन्त्यप्रदेशो जीवः, ते तिष्यगुप्तादुत्पन्नाः ॥२॥
अव्यक्ताः संयताऽसंयताद्यवगमे सन्दिग्धाः, आषाढाज्जाताः ॥३॥ सामुच्छेदाः, ते उत्पत्त्यनन्तरमेवोच्छेदवादिनोऽश्वमित्राज्जाताः ||४|| द्वे क्रिये, एकसमये क्रियाद्वयानुभववादिनः गङ्गसूररुत्पन्नाः ||५|| जीवाजीवनोजीवरूपत्रिराशिवादिनः षडुलूकादुत्पन्नाः ॥६॥ अबद्धिकाः स्पृष्टकर्मवादिनो गोष्टामाहिलादुत्पन्नाः ॥७॥
निह्ववते जिनोक्तमिति निह्नवाः, एतेषु सप्तसु श्रीवीरस्य ज्ञानोत्पत्तेरनु चतुर्दशसु वर्षेषु गतेषु क्रमादाद्यद्वितीयावुत्पन्नौ । श्रीवीरनिर्वाणच्चतुर्दशाधिके वर्षशतद्वये तृतीयः, विंशाधिके वर्षशतद्वये तुर्यः, अष्टाविंशत्यधिके वर्षशतद्वये पञ्चमः, चतुश्चत्वारिंशाधिके वर्षशतपञ्चके षष्ठः, चतुरशीत्यधिके च वर्षशतपञ्चके सप्तम उत्पन्नः ।।
__ तत्र क्षत्रियकुण्डपुरे श्रीवीरज्येष्ठस्वसुः सुदर्शनायाः सुतो जमालिः पञ्चशतयुक्, तद्भार्या च श्रीवीरपुत्री अनवद्याङ्गी प्रियदर्शनाह्वा सहस्रयुक् ब्राह्मणकुण्डग्रामे वीरान्तीके प्रावाजीत् । जमालिः श्रीवीरं विहाराय त्रिकृत्वः पृच्छन् श्रीवीराऽननुज्ञातोऽपि पञ्चशतसाधुसहस्रसाध्वीयुग् विहृतः, श्रावस्त्यां तिन्दुकोद्यानेन्तप्रान्तैरुग्लः (खिन्नः) शिष्यान् संस्तारं कुर्वतोऽपृच्छत् संस्कृतं न वा ? तैरुक्तं संस्तृतं, तत्रागतोऽर्द्धसंस्तृतं वीक्ष्य क्रियमाणं कृतं इति जनोक्तं वृथाऽध्यक्षविरुद्धत्वादनुष्णाग्निवत् , एवं ध्यात्वा क्रियमाणं क्रियमाणमेव, कृतं तु कृतमिति प्ररूपयन् साधुभिरूचेऽर्हद्वाक् सत्यैव । चेत् क्रियमाणं कृतं नेष्यते ततः कथं क्रियायाः प्रारम्भसमय इवान्त्यसमये तदिष्यते ? सदाऽभावप्रसङ्गात् क्रियायाश्चाऽविशेषात् । न चाध्यक्षवैरुद्ध्यं यतो यद्वस्त्राधास्तीर्यते तदास्तीर्णमेवेत्युक्तोऽप्यनिच्छन् स स्वं, सह दीक्षितसाधुसाध्वीश्च मिथ्यात्वेऽपातयत् । अन्यदा शय्यातरश्राद्धेन ढङ्ककुम्भकृता तत्साध्वीजवनिकाङ्गारैरेकदेशे दग्धा, साधवीभिरुक्तं ढङ्क सङ्घाटी दग्धा, सोऽवक् यूयमेव वदथ यद्दह्यमानमदग्धं, ततः केन वः सङ्घाटी दग्धा?
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org