________________
तृतीयं चातुरङ्गीयमध्ययनम्
'पुव्वंते हुज्ज जुगं, अवरन्ते तस्स होज्ज समिलाओ ।
जुगच्छमि पवेस । इय संसइओ मणुयलंभे ॥१॥ [ उत्त.नि.गा. १५९वृ. ]
जह समिला पब्भठ्ठा, सागरसलिले अणोरपारंमि,
पविसिज्ज जुगच्छिदं, कहवि भमंती भमं तंमि ॥२॥ [ उत्त.नि.गा. १५९वृ. ] सा चण्डवायवीई -पणोल्लिया अवि लभेज्ज जुगछिद्दं ।
नय माणुसाओ भट्ठो, जीवो पुण माणसं लहइ ॥३॥ [ उत्त.नि.गा. १५९वृ.] इति गाथाभिर्युगदृष्टान्तः ||९||
देवो महान्तं रत्नस्तम्भं संचूर्ण्याऽविभागांस्तदणून्नलिकायां क्षिप्त्वा मन्दरचूलायां स्थित्वा फूत्कुर्वन् दशदिक्षु निर्नाम नाशयेत्, कोऽपि तानपि मेलयित्वा पुनस्तथैव स्तम्भं कुर्यात्, किन्त्वकृतपुण्यो नृत्वं नाप्नुते । इति परमाणुदृष्टान्तः ||१०||
लब्धेऽपि नृत्वे
आलस्स १ मोह २ वन्ना ३, थंभा ४ कोहा ५ पमाय ६ किविणत्ता ७ । भय ८ सोगा ९ अन्नाणा १०, वक्खेव ११ कुतूहला १२ रमणा १३ ॥१॥ [ उत्त. नि./गा. १६० ] अर्थः- आलस्यं धर्मकार्योपेक्षा । मोहो भार्यादीनां, अवज्ञा किं धर्मेणेति ? किं वा भिक्षुवृत्त्या ? स्तम्भो जात्यादिगर्वः क्रोधः कषायोदयः, प्रमादो निद्रादिः, कृपणत्वं यथा साध्वादीनां किमपि दातव्यं भविष्यतीति भयो नारकादि भयं प्रदर्श्य नियमं दापयिष्यतीति, शोको स्वजनादिवियोगजः, अज्ञानं कुमतं, व्याक्षेपो वैयग्र्यं कुतूहलो नटादेः, रमणं बालकादिखेलनं विषयाश्च ॥१॥ एते सिद्धान्तश्रवणे विघ्नाः,
श्रद्धादुर्लभतायां निह्नववक्तव्यतेयम्
"
बहुरयजमालिपभवा, जीवपएसा य तीसगुत्ताओ । अवत्तासाढाओ, सामुच्छेयासमित्ताओ ॥१॥ [ उत्त.नि./गा.१६५ ]
५९
१. संस्कृतच्छाया - पूर्वान्ते भवेत् युगं, अपरान्ते तस्य भवेत् समिला । युगच्छद्रे प्रवेशः, इति संशयः मानुष्यलाभे ॥१॥
यथा समिला प्रभ्रष्टा, सागरसलिले अर्णोऽपारे । प्रविशेत् युगच्छिद्रं कथमपि भ्रमन्ती भ्रमं तस्मिन् ॥२॥ सा चण्डवातवीचि - प्रलोलिता अपि लभेत युगच्छिद्रं । न च मानुष्याद् भ्रष्टो, जीवः पुनः मानुष्यत्वं लभते ||३||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org