________________
५८
श्रीउत्तराध्ययनदीपिकाटीका-१ राज्यं लप्स्यसे इत्यूचे । इतस्तत्र राजाऽपुत्रो मृतोऽमात्यैः पञ्च दिव्यान्यधिवासितानि, लब्धवांश्च मूलदेवो राज्यं तत् श्रुत्वा स कार्पटिक आकाशे मुखमुद्घाट्य सदा शेते कदापीन्दुः स्वप्ने मुखे विशेदिति । कदापीदमपि स्यान्न चाकृतपुण्यस्य नृत्वं । इति स्वप्नदृष्टान्तः ॥६॥
इन्द्रपुरे इन्द्रदत्तो राट् , तस्य द्वाविंशतिसुताः, राजान्यदा मन्त्रिपुत्री सुरूपां दृष्ट्वा तां परिणीतवान् । तदनन्तरं सा तेन विस्मृता । अन्यदा ऋतुस्नाता सा राज्ञा दृष्टा, पृष्टाश्चान्याः प्रियाः केयमिति । ताभिस्त्वद्राज्ञीत्युक्ते तेन तां रात्रि सा भुक्ता । तस्या गर्भोऽभूत् । पुत्रीकथनतो मन्त्रिणा तत्सर्वं वृत्तान्तं नृपमुद्राङ्कितं पत्रे लिखितं । ततः सा मन्त्रिपुत्री गृहं प्राप्ता पुत्रमसूत, मन्त्रिणा तस्य सुरेन्द्रदत्ताभिधानं कृतं । क्रमेण तेन कलाचार्यसमीपे सर्वाः कला अभ्यस्ताः, राज्ञस्ते द्वाविंशतिकुमारा दुर्ललिताः किञ्चदपि नाऽपठन्, कलाचार्येण कुट्टितास्ते निजमातृणां तं वृत्तान्तमकथयन् । ताः पण्डितमुपालम्भयन्त । ततः पण्डितेन न च ते ताडिता न च पाठिताः । इतो मथुरायां जितशत्रुराज्ञा निजपुत्रीनिवृत्तिविवाह) राधावेधपूर्वकं स्वयंवरमण्डपो विहितः, तदेन्द्रदत्तो निजद्वाविंशतितनयोपेतस्तत्र हृष्टो गतः, अन्येऽपि तत्र बहवो राजकुमारा निवृत्तिकन्याविवाहार्थमेताः, मन्त्र्यपि स्वदौहित्रेययुत इन्द्रदत्तेन राज्ञा सह तत्रागतोऽभूत्, एवं तत्र मिलितानां कुमाराणां मध्यात् कोऽपि राधावेधं साधयितुं समर्थो नाभूत् । निजद्वाविंशतिसुतानपि तत्कार्येऽसमर्थान् ज्ञात्वा विषण्णीभूतो नृपो मन्त्रिणोक्तो हे स्वामिन्नलं खेदेन त्वत्पुत्रो मे दौहित्रेयो नूनं राधावेधं साधयिष्यति । विस्मितेन राज्ञोक्तं को मे पुत्रो ! नाहं स्मरामि ! तदा मन्त्रिणा स नृपमुद्राङ्कितो लेखोऽदर्शि। हृष्टेन नृपेण सुरेन्द्रदत्ताय राधावेधं साधयितुमाज्ञा दत्ता, तेनापि पितुरादेशमाप्य झटिति राधावेधः साधितः परिणीता च निवृत्तिकन्या । एवं दुःसाध्योऽपि चक्रोपेतो राधावेधः केनचित् साध्यते, किन्त्वकृतपुण्यो नृत्वं नाप्नोति । इति चक्रदृष्टान्तः ।।७।। ___चर्म सेवालं तस्य घनसमूहेन निश्छिद्रीभूते कस्मिंश्चिद्बहुयोजनसहस्रविस्तीर्णेऽगाधहृदे कच्छपो वर्षशते वर्षशते ग्रीवां प्रसारयति । स कदापि महावाताहतस्फुटन्निबिडशैवलपटलैकदेशात्तत्तडागान्निजग्रीवामुर्वीकृत्याश्विनपूर्णिमार्द्धरात्रेऽदृष्टपूर्वं सज्योतिश्चक्रेन्द्रं दृष्ट्वा प्रहृष्टः, स्वपुत्रपौत्राणामिदमाश्चर्यं दर्शयामीति तानाह्वातुं तूर्णं स नदतले गत्वा स्वकुलं सर्वमानीयैतस्तावद्वातबलमिलितशैवलपटले तत्र मार्गमविन्दन् पुनरिन्दुं नैक्षिष्ट, तथाऽकृतपुण्यो नृत्वं नाप्नुते । इति चर्मदृष्टान्तः ॥८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org