________________
५७
तृतीयं चातुरङ्गीयमध्ययनम् चक्री भोजयित्वा वासोयुगं दीनारं चास्मै ददे । तदनु स नृपान्तःपुरद्वात्रिंशत्सहस्रराज्ञीनगरपत्तनग्रामाकरादिषु भुञ्जानः सर्वत्र भुङ्क्त्वा कथं पारयेत् ? किन्तु नैव । कदाप्येतदपि घटेत, किन्तु जीवोऽकृतपुण्यो नृत्वाद्भष्टो न नृत्वं लभेतेति चोलकदृष्टान्तः ।।१।।
___ चन्द्रगुप्तराज्ञः कोशत्रुटौ चाणिक्यो देवदत्तपाशकान् लात्वा स्थालं च दीनारै त्वा सभायामन्यराजादिभ्यो जगौ, यदि वो जयस्तदा स्थालस्थाः सर्वे दीनारा ग्राह्याः, यदि च मे जयस्तदैको दीनारो देयः, तस्तते हारिते यानं स्तोकं, जिते च धनो लाभ इत्यालोच्य तेन सह रमन्ते । स तु नाऽहारयत्, कोशश्चावर्द्धत, कदापि स देवसान्निध्योऽपि हारयेत् नत्वकृतपुण्यो नृत्वं लभेत् । इति पाशकदृष्टान्तः ॥२॥
__ भव्ये सुभिक्षे भरते धान्यानि सर्वाण्येकत्र पिण्डीकृतानि स्युः, तत्र सर्षपप्रस्थः क्षिप्तो मिश्रीकृतः, जराजर्जरस्थविरी सूर्पकेण तैरेव सर्षपैः प्रस्थं कदापि दिव्यानुभावादिना पूरयेत् , यद्वा धान्यानि पृथक् पृथक् कुर्यात् , नत्वकृतपुण्यो नृत्वं लभेत इति धान्यदृष्टान्तः ॥३॥
___एकस्य राज्ञः सभायामष्टोत्तरशतस्तम्भाः, प्रतिस्तम्भं चाष्टोत्तरशतमस्रयः सन्ति, राज्ञः सुतो राज्यार्थी स्थविरं नृपं हत्वा राज्यं लामीति चिन्तयन् कथञ्चन राज्ञाज्ञायि । राज्ञोक्तं वत्सास्मत्कुलक्रमोऽयमस्ति यः पितरं द्यूते जयति तस्य राज्यं देयं, अन्यथा राज्ये दीयमाने कुलसुरी कुप्यति । द्यूतविधिः पुनरित्थं-एकैकां स्तम्भास्त्रिमष्टोत्तरशतवारान्निरन्तरं जित्वैवं सभास्थसर्वस्तम्भानां द्यूते जयः कार्यः, तत्रैकवारमपि हारिते पूर्वजितमपि याति । एवं च निर्विघ्नं जित्वा राज्यं त्वं गृहाण ! इति रममाणः स कदापि देवसान्निध्याद्राज्यं लभेत, न त्वकृतपुण्यो नृत्वं लभेत । इति द्यूतदृष्टान्तः ॥४॥
___वणिगेगो वृद्धो महाधनो रत्नानां कोटी: सञ्चिक्ये, अन्ये धनिनः स्वगृहोर्ध्वं कोटीस्वसङ्ख्यया ध्वजानबध्नन्, स तु न कदापि । एकदा तस्मिन् ग्रामगते तत्पुत्रै रत्नानि नानादेशागतवणिग्भ्यो यादृक्तादृग्मूल्येन विक्रीय सौधं कारयित्वोर्ध्वं कोटिध्वजा बद्धा । वृद्धो गृहेतस्तत्स्वरूपं ज्ञात्वा रुष्टः सुतानूचे मद्गृहाद्यात ! तदैत्यं यदा विक्रीतसर्वरत्नानि यूयमानयेत, नान्यथा । ततस्ते भ्रमन्तोऽन्यत्रान्यान्यक्रीतानि तानि कदापि दैवानुभावाल्लभन्ते, न त्वकृतपुण्यो नृत्वं लभेत । इति रत्नदृष्टान्तः ॥५॥
मूलदेवो राजसूः क्ष्मामटन्नेकस्मिन् चैत्ये सुप्तः, तत्र चान्ये पथिककार्पटिका अपि सुप्ता आसन् एकेन कार्पटिकेन स्वप्ने चन्द्रो मुखे प्रविशन् दृष्टो, मूलदेवेनापि तथैव स्वप्नं दृष्टं । कार्पटिकानां फलं पृष्टं, तैरुक्तं चन्द्रप्रमाणं रोट्टकं त्वं भिक्षायां लप्स्यसे । मूलदेवेन च स्नात्वा पुष्पफलादिपूर्णहस्तेन स्वप्नपाठक: स्वप्नफलं पृष्टः पुत्री परिणाय्य सप्तमेऽह्नि त्वं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org