________________
५४
हितोपदेशः । गाथा-३६, ३७ - गुणानां माहात्म्यम् ।।
यञ्चापरे पुरुषशार्दूलाः पृथिव्यां पुरहूता इव संजज्ञिरे । समृद्धं हि राज्यमैन्द्रपदान परिहीयते । एतदेव स्पष्टयति भुजबले'त्यादि ।। भुजयोर्बलेन दोर्दण्डचण्डिम्ना, अर्जिता स्वायत्तीकृता, न तु परशुरामादेर्द्विजादिभिरिव दयापूर्विकया लब्धा । एवंविधा या वसुधा, तस्याः स्थापित: कल्पितोऽवधितुल्यः सीमसमानः क्षुद्रहिमवान् यैस्ते तथा । भुञ्जते हि चक्रवर्तिनः क्षुद्रहिमवन्मर्यादां मेदिनीम्, एवं च अखण्डषट्खण्डक्षोणीमण्डलाखण्डलत्वं समीचीनमेव, अत एव सुरखेचरनताः प्रणमन्ति हि सङ्क्रन्दनमिव सुरचक्राणि चक्रवर्तिनमपीति भावः ।।३५।। तथा -
उब्भडदंभोलिबलावलेव-अवगणियदित्तदणुवइणो ।
अप्पडिमपभावा कप्पसामिणो जं च सीसंति ।।३६।। यञ्च कल्पस्वामिनः स्वर्गपतयः शास्त्रेषु प्रतिपाद्यन्ते । किंविशिष्टाः ? अप्रतिमप्रभावाः निरुपममहिमानः, एतदेव दर्शयति-'उन्भडे 'त्यादि । उद्भटदम्भोलिबलावलेपावगणितदृप्तदनुपतयः अत्यन्तोल्बणकुलिशसामर्थ्यापहस्तितबलवदैत्यपतयः, एतदपि सुसञ्चितोल्बणगुणविजृम्भितमेवेति ।।३६।।
किञ्च यच्चास्मिन् जगति केऽपि पुरुषपुण्डरीका जगतोऽपि गुरवः सञ्जाताः, जगद्गुरुत्वमेव व्यनक्ति -
समसमयससंभमभमिरनमिरसुररायपणयपयकमला ।
वरनाणमहोअहिणो जं जाया केइ जयगुरुणो ।।३।। "समसमये"त्यादि । समसमयं समकालं ससम्भ्रमाः सादरा भ्रमन्तः, किं किमस्य जगद्गुरोः क्रियताम् ? इति । प्रहर्षोत्तालगतयो नम्रा वन्दारवो ये च सुरराजानो अमर्त्यचक्रवर्तिनः, तैः प्रणतानि नमस्कृतानि पदकमलानि येषां ते तथा ।
अथ किमर्थं त्रिदिवपतयोऽपि तानेवं नमस्यन्ति ? तदाह - 'वरनाणे'त्यादि, वरं क्षायिकत्वादप्रतिपाति, यदि वा लोकालोकप्रकाशकत्वेन मतिज्ञानाद्यपेक्षया वरं प्रधानं यत् ज्ञानं केवललक्षणं तस्य महोदधय इव अनन्तज्ञानार्णवाः । अत एव त्रिजगत्पतिप्रणतपदा जगद्गुरवश्च ते च तीर्थपतय एव ।।३७।। साम्प्रतं दानशौण्डत्वमण्डलेश्वरत्वाऽर्द्धचक्रवर्तित्वचक्रवर्तित्वसुरेन्द्रत्वतीर्थपतित्वप्रभृतिकं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org