________________
हितोपदेशः । गाथा - ३८, ३९, ४०, ४१ गुणानां माहात्म्यम् ।। उत्तमगुणानां नामानि ।।
चिरसञ्चितोत्तमगुणगणगरिमाणं पृथक् पृथक् गाथाभिरभिधाय कुलकं सङ्कलयन्नाह - अन्नं पि हु जं किंपि भुवणच्छेरयकरं परं लोए । सव्वं चि चिरसंचियगुणाण तं मुणह माहप्पं ॥ ३८ ॥
किं वा बहूक्तेन । अन्यदपि यत् किमपि लोके जगति भुवनाश्चर्यकरं त्रिभुवनचेतश्चमत्कारि आमर्षौषधिलब्ध्यादिकमष्टमहासिद्धिप्रभृतिकं च दृश्यते श्रूयते वा तत् सर्वं चिरसञ्चितानां गुणानामेव माहात्म्यं जानीतेति मूलसम्बन्धः ।। ३८ ।। किञ्च -
पूयं पावंति अचेयणावि पसुणो वि गोरवमुविंति ।
जं सुगुणपरिग्गहिया ता भयह गुणे इमे ते य । । ३९।।
५५
कदाचित् प्रकृष्टचैतन्यवदाधारपुरस्कारेणैव गुणानां गुरुता स्यादित्याशङ्क्याह यत् यस्मात्, शोभनैर्गुणैर्वक्ष्यमाणैः परिगृहीताः कृताधिष्ठाना, अचेतना अपि विशिष्टचैतन्यशून्याः, चिन्तामणि-कल्पपादपप्रभृतयः प्रधानमानवगणेभ्यः पूजां प्राप्नुवन्ति । यथा पशवोऽपि कामगवीकरि तुरगादयः क्षितिपतिप्रभृतीनामपि गौरवभाजनं भवन्ति न तु पूर्वोदिता एव । एवं सति यद्विधेयं तदाह-भयह त्ति । तत्तस्मात् कारणात् हे कुशलाः ! गुणान् भजध्वं सेवध्वम्, अथ के ते गुणास्तदाह- 'इमे ते य' ते च गुणा अमी वक्ष्यमाणाः ।। ३९ ।।
तानेवाह -
दाणं सीलं च तवो भावो विणओ' परोवयारो य । उचियाचरणं च तहा देसाइविरुद्धपरिहारों ॥। ४० ।।
अत्तुक्करिस'- कयग्घत्त" - अभिणिवेसाण वज्जणं" तह य । इय एसो गुणनिवहो सम्मत्तथिरत्तणं कुणइ ||४१ । । प्रतिद्वारगाथा ।
इत्येष प्रतिद्वारैकादशकेन प्रोक्तो गुणनिवहः सम्यक्त्वस्य पूर्वद्वारप्रणीतस्य स्थैर्यमुत्पादयति । प्रतिद्वाराण्येवाह - दानमित्यादि । तत्र दानं वक्ष्यमाणं चतुःप्रकारमभयदानादि । शीलमव्रतत्यागः । तपो द्वादशभेदम् । भावः शुभाध्यवसायः । विनयः प्रतिपत्तिलक्षणः । परोपकारो द्रव्यभावभेदभिन्नः । उचिताचरणं पित्रादिषु वक्ष्यमाणलक्षणम् । देशादीनां पञ्चानां विरुद्धपरिहारः । तथा - आत्मोत्कर्षकृतघ्नत्वाभिनिवेशानां वर्जनमिति ।।४०-४१।।
1
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org