SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ५६ हितोपदेशः । गाथा-४२, ४३, ४४, ४५ - दानगुणस्य वर्णनम् ।। अभयदानस्य वर्णनम् ।। इदानीं दानादीन्येव सप्रपञ्चं व्याचष्टे - उद्दीवियसयलगुणं दाणं ता तत्थ भन्नए पढमं । तं पुण चउप्पयारं वनिज्जइ समयसत्थेसु ।।४२।। तत्र तेषु प्रतिद्वारेषु गुणेषु वा प्रथमं तावद् दानमेव भण्यते । किंविशिष्टम् ? उद्दीपितसकलगुणम् । उद्दीपिता:-समुत्तेजिताः, सकलाः - समग्राः, गुणाः - शौर्य-धैर्यादयो येन तत् तथा । दानशून्यो हि गुणवानपि न द्योतते, तच्च दानं समयशास्त्रेष्वागमग्रन्थेषु चतुष्प्रकारं भण्यते ।।४२।। चतुष्प्रकारत्वमेव दर्शयति - पढमं अभयपयाणं अणुकंपादाणमह भवे बीयं । तइयं तु नाणदाणं चउत्थयं भत्तिदाणं तु ।।४३।। प्रथममभयप्रदानम् । अनुकम्पादानमथ भवेद् द्वितीयम् । तृतीयं तु ज्ञानदानम् । चतुर्थं तु भक्तिदानम् । इति ।।४३।। तत्थ य अभयपयाणं किज्जइ भयविहुरियाण जीवाणं । भनइ भयं तु मरणाउ नावरं चाउरंतभवे ।।४४।। तत्र तेषु चतुर्षु दानेषु मध्ये अभयप्रदानं क्रियते । केषां? जीवानाम् । किंविशिष्टानां? भयविधुरितानां साध्वसविह्वलानाम् । भयं तु पुनरस्मिन् चातुरन्तेऽपि भवे चातुर्गतिकेऽपि संसारे मरणादपरं अधिकं न किमपि भण्यते । 'मरणभयं तु भयाणं' इति श्रुतेः ।।४४।। रक्खंति य मरणभयं पाणीणं दयावरा नरा सम्मं । तम्हा धम्मरहस्सं इक्कञ्चिय होइ पाणिदया ।।४५।। तच्च मरणभयं प्राणिनां जीवानां सम्यक् त्रिकरणशुद्धया रक्षन्ति । के? नराः । किंविशिष्टाः? दयापराः करुणारसवासितान्तःकरणाः । तस्मादेवं सति धर्मस्य अहिंसालक्षणस्य रहस्यम् उपनिषद् एकैव भवति जीवदया । विना हि दयां निष्फलं सकलमेवान्यद् धर्मानुष्ठानम् । यदुक्तम् - Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy