________________
हितोपदेशः । गाथा-४६, ४७, ४८, ४९ - जीवदयायाः प्राणस्य च स्वरूपम् ।।
पठितं श्रुतं च शास्त्रं गुरुपरिचरणं च गुरुतपश्चरणम् ।
घनगजितमिव विजलं विफलं सकलं दयाविकलम् ।।१।। [ ] इति ।।४५।। अथ के प्राणिनः? का च तेषां दया? इति प्रदर्शयन्नाह -
पाणिंती जीवंती जं तेणं पाणिणो इहं जीवा ।
सा होइ दया जं पुण तेसिं हिंसाइ परिहारो ।।४६।। जीव प्राणधारणे । [पा.धा. ५६२ । हे. धातु.८७] यत् यस्मात् जीवन्ति प्राणन्ति प्राणान् धारयन्ति तेन हेतुना प्राणिनो जीवाः । यत् पुनस्तेषां हिंसाया: परिहारः सा दया भवतीति ।।४६।। अत्राह परः -
हिंसच्चिय नणु न घडइ अणाइनिहणस्स ताव जीवस्स ।
तयभावे कह णु दया ? गामाभावे जहा सीमा ।।४७।। ननु प्रश्ने । जीवस्य हिंसायाः परिहारो दयेति भवद्भिरुदीर्यते, तत्र तावज्जीवस्य हिंसैव वधलक्षणा न घटते । कुतः? अनादिनिधनत्वाज्जीवस्य, न विद्यते आदिनिधने उत्पत्तिप्रलयौ यस्य स तथा तस्य । तस्याश्च हिंसाया अभावे अविद्यमानत्वे नु इति वितर्के । कथं दया? | हिंसासिद्धौ हि दयायाः साफल्यम् । अत्र दृष्टान्तमाह - 'गामाभावे जहा सीमा' । सति हि ग्रामे तत्सीमाव्यवस्थापनमनुचितम् ।।४७ ।। आचार्यः प्राह -
सच्चं न घडइ हिंसा अणाइनिहणस्स सोम जीवस्स ।
हिंसासदत्थं पुण न याणसि तेणिमं भणसि ।।४८।। हे सौम्य ! सत्यमेवेदं भवद्वचो, यदनादिनिधनस्य जीवस्य हिंसा न स्यादेव । किन्तु त्वं हिंसाशब्दार्थमेव तावन्न जानासि । कथमवसीयत इति चेत्? तेनैव हिंसाशब्दार्थपरिज्ञानलक्षणेन हेतुना इदं पूर्वोक्तमभिदधासि । अज्ञश्चानुग्राह्यो गुरुजनस्येति हिंसाशब्दार्थमेव तावदवबोध्यसे ।।४८।।
पाणा संति इमस्स त्ति तेण पाणि त्ति वुच्चई जीवो । पाणे उण दससंखे आगमभणिए इमे मुणसु ।।४९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org